दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक्
अश्वाः कणा गावस्तण्डुला मशकास्तुषाः
कब्रु फलीकरणाः शरोऽभ्रम्
श्याममयोऽस्य मांसानि लोहितमस्य लोहितम्
त्रपु भस्म हरितं वर्णः पुष्करमस्य गन्धः
खलः पात्रं स्फ्यावंसावीषे अनूक्ये
आन्त्राणि जत्रवो गुदा वरत्राः
इयमेव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौरपिधानम्
सीताः पर्शवः सिकता ऊबध्यम्
ऋतं हस्तावनेजनं कुल्योपसेचनम्
ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता
ब्रह्मणा परिगृहीता साम्ना पर्यूढा
बृहदायवनं रथन्तरं दर्विः
ऋतवः पक्तार आर्तवाः समिन्धते
चरुं पञ्चबिलमुखं घर्मोऽभीन्धे
ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः
यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयोऽवरपरं श्रिताः
यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः
तं त्वौदनस्य पृच्छामि यो अस्य महिमा महान्
स य ओदनस्य महिमानं विद्यात्
नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति
यावद्दाताभिमनस्येत तन् नाति वदेत्
ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशी३ः प्रत्यञ्चा३ इति
त्वमोदनं प्राशी३ त्वामोदना३ इति
पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह
प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह
नैवाहमोदनं न मामोदनः
ओदन एवौदनं प्राशीत्
ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् । ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । बृहस्पतिना शीर्ष्णा । तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद
[१] ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् । बधिरो भविष्यसीत्येनमाह । तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् । द्यावापृथिवीभ्यां श्रोत्राभ्याम् । ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद