शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि । न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वां परि पश्यसि भूमिं पूर्वस्माद्धंस्युत्तरस्मिन्त्समुद्रे
मा नो रुद्र तक्मना मा विषेण मा नः सं स्रा दिव्येनाग्निना । अन्यत्रास्मद्विद्युतं पातयैताम्
भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्वन्तरिक्षम् । तस्यै नमो यतमस्यां दिशीतः
भव राजन् यजमानाय मृड पशूनां हि पशुपतिर्बभूथ । यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड
मा नो महान्तमुत मा नो अर्भकं मा नो वहन्तमुत मा नो वक्ष्यतः । मा नो हिंसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो नः
रुद्रस्यैलबकारेभ्योऽसंसूक्तगिलेभ्यः । इदं महास्येभ्यः श्वभ्यो अकरं नमः
नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्यः । नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः । नमस्ते देव सेनाभ्यः स्वस्ति नो अभयं च नः
तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम्
द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्तऋषयः प्राणापानाः
चक्षुर्मुसलं काम उलूखलम्
दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक्
अश्वाः कणा गावस्तण्डुला मशकास्तुषाः
कब्रु फलीकरणाः शरोऽभ्रम्
श्याममयोऽस्य मांसानि लोहितमस्य लोहितम्
त्रपु भस्म हरितं वर्णः पुष्करमस्य गन्धः
खलः पात्रं स्फ्यावंसावीषे अनूक्ये
आन्त्राणि जत्रवो गुदा वरत्राः
इयमेव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौरपिधानम्
सीताः पर्शवः सिकता ऊबध्यम्
ऋतं हस्तावनेजनं कुल्योपसेचनम्
ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता
ब्रह्मणा परिगृहीता साम्ना पर्यूढा
बृहदायवनं रथन्तरं दर्विः
ऋतवः पक्तार आर्तवाः समिन्धते
चरुं पञ्चबिलमुखं घर्मोऽभीन्धे
ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः
यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयोऽवरपरं श्रिताः
यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः
तं त्वौदनस्य पृच्छामि यो अस्य महिमा महान्
स य ओदनस्य महिमानं विद्यात्