सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा । प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे
इन्द्रो ह चक्रे त्वा बाहावसुरेभ्य स्तरीतवे । प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे
पाटामिन्द्रो व्याश्नादसुरेभ्य स्तरीतवे । प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे
तयाहं शत्रून्त्साक्ष इन्द्रः सालावृकामिव । प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे
रुद्र जलाषभेषज नीलशिखण्ड कर्मकृत्। प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे
तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति । अधि नो ब्रूहि शक्तिभिः प्राशि मामुत्तरं कृधि
तुभ्यमेव जरिमन् वर्धतामयं मेममन्ये मृत्यवो हिंसिषुः शतं ये । मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात्पात्वंहसः
मित्र एनं वरुणो वा रिशादा जरामृत्युं कृणुतां संविदानौ । तदग्निर्होता वयुनानि विद्वान् विश्वा देवानां जनिमा विवक्ति
त्वमीशिषे पशूनां पार्थिवानां ये जाता उत वा ये जनित्राः । मेमं प्राणो हासीन् मो अपानो मेमं मित्रा वधिषुर्मो अमित्राः
द्यौष्ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने । यथा जीवा अदितेरुपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः
इममग्ने आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन् । मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत्
पार्थिवस्य रसे देवा भगस्य तन्वो बले । आयुष्यमस्मा अग्निः सूर्यो वर्च आ धाद्बृहस्पतिः
आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेहि अस्मै । रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम्
आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ । जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यान् अधरान्त्सपत्नान्
इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रहितो नो आगन् । एष वां द्यावापृथिवी उपस्थे मा क्षुधन् मा तृषत्
ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम् । ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः
शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः । सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम्
इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधामजरां सा त एषा । तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद्भिषजस्ते अक्रन्
यथेदं भूम्या अधि तृणं वातो मथायति । एवा मथ्नामि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः
सं चेन् नयाथो अश्विना कामिना सं च वक्षथः । सं वां भगासो अग्मत सं चित्तानि समु व्रता
यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः । तत्र मे गच्छताद्धवं शल्य इव कुल्मलं यथा
यदन्तरं तद्बाह्यं यद्बाह्यं तदन्तरम् । कन्यानां विश्वरूपाणां मनो गृभायौषधे
एयमगन् पतिकामा जनिकामोऽहमागमम् । अश्वः कनिक्रदद्यथा भगेनाहं सहागमम्
इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी । तया पिनष्मि सं क्रिमीन् दृषदा खल्वामिव
दृष्टमदृष्टमतृहमथो कुरूरुमतृहम् । अल्गण्डून्त्सर्वान् छलुनान् क्रिमीन् वचसा जम्भयामसि
अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन् । शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिरुच्छिषातै
अन्वान्त्र्यं शीर्षण्यमथो पार्ष्टेयं क्रिमीन् । अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि
ये क्रिमयः पर्वतेशु वनेष्वोषधीषु पशुष्वप्स्वन्तः । ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम्
उद्यन्न् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः । ये अन्तः क्रिमयो गवि
विश्वरूपं चतुरक्षं क्रिमिं सारङ्गमर्जुनम् । शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः