उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः । श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि
परेहि नारि पुनरेहि क्षिप्रमपां त्वा गोष्ठो अध्यरुक्षद्भराय । तासां गृह्णीताद्यतमा यज्ञिया असन् विभाज्य धीरीतरा जहीतात्
एमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व । सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञः प्रति कुम्भं गृभाय
ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः । अयं यज्ञो गातुविन् नाथवित्प्रजाविदुग्रः पशुविद्वीरविद्वो अस्तु
अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम् । आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु
शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः । अदुः प्रजां बहुलां पशून् नः पक्तौदनस्य सुकृतामेतु लोकम्
ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे । अपः प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्त्वा सुकृतामेत लोकम्
उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके । पितामहाः पितरः प्रजोपजाहं पक्ता पञ्चदशस्ते अस्मि
सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः । अमूंस्त आ दधामि प्रजया रेषयैनान् बलिहाराय मृडतान् मह्यमेव
{२} उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्येनाम् । श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि
अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङ्ङेनां देवताभिः सहैधि । मा त्वा प्रापच्छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज
ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिरग्रे । अंसद्रीं शुद्धामुप धेहि नारि तत्रौदनं सादय दैवानाम्
अदितेर्हस्तां स्रुचमेतां द्वितीयां सप्तऋषयो भूतकृतो यामकृण्वन् । सा गात्राणि विदुष्योदनस्य दर्विर्वेद्यामध्येनं चिनोतु
शृतं त्वा हव्यमुप सीदन्तु दैवा निःसृप्याग्नेः पुनरेनान् प्र सीद । सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन् प्राशितारः
सोम राजन्त्संज्ञानमा वपैभ्यः सुब्राह्मणा यतमे त्वोपसीदान् । ऋषीन् आर्षेयांस्तपसोऽधि जातान् ब्रह्मौदने सुहवा जोहवीमि
शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि । यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददादिदं मे
इदं मे ज्योतिरमृतं हिरण्यं पक्वं क्षेत्रात्कामदुघा म एषा । इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु यः स्वर्गः
अग्नौ तुषान् आ वप जातवेदसि परः कम्बूकामप मृड्ढि दूरम् । एतं शुश्रुम गृहराजस्य भागमथो विद्म निर्ऋतेर्भागधेयम्
श्राम्यतः पचतो विद्धि सुन्वतः पन्थां स्वर्गमधि रोहयैनम् । येन रोहात्परमापद्य यद्वय उत्तमं नाकं परमं व्योम
{३} बभ्रेरध्वर्यो मुखमेतद्वि मृड्ढ्याज्याय लोकं कृणुहि प्रविद्वान् । घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु यः स्वर्गः
बभ्रे रक्षः समदमा वपैभ्योऽब्राह्मणा यतमे त्वोपसीदान् । पुरीषिणः प्रथमानाः पुरस्तादार्षेयास्ते मा रिषन् प्राशितारः
आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्यत्र । अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम्
यज्ञं दुहानं सदमित्प्रपीनं पुमांसं धेनुं सदनं रयीणाम् । प्रजामृतत्वमुत दीर्घमायू रायश्च पोषैरुप त्वा सदेम
वृषभोऽसि स्वर्ग ऋषीन् आर्षेयान् गच्छ । सुकृतां लोके सीद तत्र नौ संस्कृतम्
समाचिनुष्वानुसंप्रयाह्यग्ने पथः कल्पय देवयानान् । एतैः सुकृतैरनु गच्छेम यज्ञं नाके तिष्ठन्तमधि सप्तरश्मौ
येन देवा ज्योतिषा द्यामुदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् । तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम्
भवाशर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम् । प्रतिहितामायतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः
शुने क्रोष्ट्रे मा शरीराणि कर्तमलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः । मक्षिकास्ते पशुपते वयांसि ते विघसे मा विदन्त
क्रन्दाय ते प्राणाय याश्च ते भव रोपयः । नमस्ते रुद्र कृण्मः सहस्राक्षायामर्त्य
पुरस्तात्ते नमः कृण्म उत्तरादधरादुत । अभीवर्गाद्दिवस्पर्यन्तरिक्षाय ते नमः