वशामेवामृतमाहुर्वशां मृत्युमुपासते । वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः
य एवं विद्यात्स वशां प्रति गृह्णीयात्। तथा हि यज्ञः सर्वपाद्दुहे दात्रेऽनपस्फुरन्
तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि । तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा
चतुर्धा रेतो अभवद्वशायाः । आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम्
वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः । वशाया दुग्धमपिबन्त्साध्या वसवश्च ये
वशाया दुग्धं पीत्वा साध्या वसवश्च ये । ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते
सोममेनामेके दुह्रे घृतमेक उपासते । य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः
ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते । ऋतं ह्यस्यामार्पितमपि ब्रह्माथो तपः
वशां देवा उप जीवन्ति वशां मनुष्या उत । वशेदं सर्वमभवद्यावत्सूर्यो विपश्यति
अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा । सप्तऋषयो भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह
कृणुत धूमं वृषणः सखायोऽद्रोघाविता वाचमच्छ । अयमग्निः पृतनाषाट्सुवीरो येन देवा असहन्त दस्यून्
अग्नेऽजनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः । सप्तऋषयो भूतकृतस्ते त्वाजीजनन्न् अस्यै रयिं सर्ववीरं नि यच्छ
समिद्धो अग्ने समिधा समिध्यस्व विद्वान् देवान् यज्ञियामेह वक्षः । तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकमधि रोहयेमम्
त्रेधा भागो निहितो यः पुरा वो देवानां पितॄणां मर्त्यानाम् । अंशां जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयाति
अग्ने सहस्वान् अभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान् । इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृतः कृणोतु
साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय । ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति
इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना । अथ गच्छेम सुकृतस्य लोकम्
एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर्बिन्ध्यंशून् यजमानाय साधु । अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजामुद्भरन्त्युदूह
गृहाण ग्रावाणौ सकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगुः । त्रयो वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि
{१} इयं ते धीतिरिदमु ते जनित्रं गृह्णातु त्वामदितिः शूरपुत्रा । परा पुनीहि य इमां पृतन्यवोऽस्यै रयिं सर्ववीरं नि यच्छ
उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः । श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि
परेहि नारि पुनरेहि क्षिप्रमपां त्वा गोष्ठो अध्यरुक्षद्भराय । तासां गृह्णीताद्यतमा यज्ञिया असन् विभाज्य धीरीतरा जहीतात्
एमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व । सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञः प्रति कुम्भं गृभाय
ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः । अयं यज्ञो गातुविन् नाथवित्प्रजाविदुग्रः पशुविद्वीरविद्वो अस्तु
अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम् । आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु
शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः । अदुः प्रजां बहुलां पशून् नः पक्तौदनस्य सुकृतामेतु लोकम्
ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे । अपः प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्त्वा सुकृतामेत लोकम्
उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके । पितामहाः पितरः प्रजोपजाहं पक्ता पञ्चदशस्ते अस्मि
सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः । अमूंस्त आ दधामि प्रजया रेषयैनान् बलिहाराय मृडतान् मह्यमेव
{२} उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्येनाम् । श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि