अभीवृता हिरण्येन यदतिष्ठ ऋतावरि । अश्वः समुद्रो भूत्वाध्यस्कन्दद्वशे त्वा
तद्भद्राः समगच्छन्त वशा देष्ट्र्यथो स्वधा । अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये
वशा माता राजन्यस्य वशा माता स्वधे तव । वशाया यज्ञ आयुधं ततश्चित्तमजायत
ऊर्ध्वो बिन्दुरुदचरद्ब्रह्मणः ककुदादधि । ततस्त्वं जज्ञिषे वशे ततो होताजायत
आस्नस्ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे । पाजस्याज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव
{३४} ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव । आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः
यदुदरं वरुणस्यानुप्राविशथा वशे । ततस्त्वा ब्रह्मोदह्वयत्स हि नेत्रमवेत्तव
सर्वे गर्भादवेपन्त जायमानादसूस्वः । ससूव हि तामाहु वशेति ब्रह्मभिः कॢप्तः स ह्यस्या बन्धुः
युध एकः सं सृजति यो अस्या एक इद्वशी । तरांसि यज्ञा अभवन् तरसां चक्षुरभवद्वशा
वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत्। वशायामन्तरविशदोदनो ब्रह्मणा सह
वशामेवामृतमाहुर्वशां मृत्युमुपासते । वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः
य एवं विद्यात्स वशां प्रति गृह्णीयात्। तथा हि यज्ञः सर्वपाद्दुहे दात्रेऽनपस्फुरन्
तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि । तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा
चतुर्धा रेतो अभवद्वशायाः । आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम्
वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः । वशाया दुग्धमपिबन्त्साध्या वसवश्च ये
वशाया दुग्धं पीत्वा साध्या वसवश्च ये । ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते
सोममेनामेके दुह्रे घृतमेक उपासते । य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः
ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते । ऋतं ह्यस्यामार्पितमपि ब्रह्माथो तपः
वशां देवा उप जीवन्ति वशां मनुष्या उत । वशेदं सर्वमभवद्यावत्सूर्यो विपश्यति
अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा । सप्तऋषयो भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह
कृणुत धूमं वृषणः सखायोऽद्रोघाविता वाचमच्छ । अयमग्निः पृतनाषाट्सुवीरो येन देवा असहन्त दस्यून्
अग्नेऽजनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः । सप्तऋषयो भूतकृतस्ते त्वाजीजनन्न् अस्यै रयिं सर्ववीरं नि यच्छ
समिद्धो अग्ने समिधा समिध्यस्व विद्वान् देवान् यज्ञियामेह वक्षः । तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकमधि रोहयेमम्
त्रेधा भागो निहितो यः पुरा वो देवानां पितॄणां मर्त्यानाम् । अंशां जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयाति
अग्ने सहस्वान् अभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान् । इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृतः कृणोतु
साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय । ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति
इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना । अथ गच्छेम सुकृतस्य लोकम्
एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर्बिन्ध्यंशून् यजमानाय साधु । अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजामुद्भरन्त्युदूह
गृहाण ग्रावाणौ सकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगुः । त्रयो वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि
{१} इयं ते धीतिरिदमु ते जनित्रं गृह्णातु त्वामदितिः शूरपुत्रा । परा पुनीहि य इमां पृतन्यवोऽस्यै रयिं सर्ववीरं नि यच्छ