येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः । य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन्
इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव । दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके
यो विद्यात्सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः । सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत्
वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः । सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद्
यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः । यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम्
अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन्॥ बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश
उत्तरेणेव गयत्रीममृतेऽधि वि चक्रमे । साम्ना ये साम संविदुरजस्तद्ददृशे क्व
निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा । इन्द्रो न तस्थौ समरे धनानाम्
पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम् । तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः
अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः । तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम्
अघायतामपि नह्या मुखानि सपत्नेषु वज्रमर्पयैतम् । इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानस्य गातुः
वेदिष्टे चर्म भवतु बर्हिर्लोमानि यानि ते । एषा त्वा रशनाग्रभीद्ग्रावा त्वैषोऽधि नृत्यतु
बालास्ते प्रोक्षणीः सन्तु जिह्वा सं मार्ष्टु अघ्न्ये । शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने
यः शतौदनां पचति कामप्रेण स कल्पते । प्रीता ह्यस्य ऋत्विजः सर्वे यन्ति यथायथम्
स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिवः । अपूपनाभिं कृत्वा यो ददाति शतौदनाम्
स तांल्लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः । हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम्
ये ते देवि शमितारः पक्तारो ये च ते जनाः । ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने
वसवस्त्वा दक्षिणत उत्तरान् मरुतस्त्वा । आदित्याः पश्चाद्गोप्स्यन्ति साग्निष्टोममति द्रव
देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये । ते त्वा सर्वे गोप्स्यन्ति सातिरात्रमति द्रव
अन्तरिक्षं दिवं भूमिमादित्यान् मरुतो दिशः । लोकान्त्स सर्वान् आप्नोति यो ददाति शतौदनाम्
{३०} घृतं प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति । पक्तारमघ्न्ये मा हिंसीर्दिवं प्रेहि शतौदने
ये देवा दिविषदो अन्तरिक्षसदश्च ये ये चेमे भूम्यामधि । तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु
यत्ते शिरो यत्ते मुखं यौ कर्णौ ये च ते हनू । आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु
यौ त ओष्ठौ ये नासिके ये शृङ्गे ये च तेऽक्षिणी । आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु
यत्ते क्लोमा यद्धृदयं पुरीतत्सहकण्ठिका । आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु
नमस्ते जायमानायै जाताया उत ते नमः । बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः
यो विद्यात्सप्त प्रवतः सप्त विद्यात्परावतः । शिरो यज्ञस्य यो विद्यात्स वशां प्रति गृह्णीयात्
वेदाहं सप्त प्रवतः सप्त वेद परावतः । शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम्
यया द्यौर्यया पृथिवी ययापो गुपिता इमाः । वशां सहस्रधारां ब्रह्मणाच्छावदामसि
शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः । ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा