दूरे पूर्णेन वसति दूर ऊनेन हीयते । महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति
यतः सूर्यः उदेत्यस्तं यत्र च गच्छति । तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन
ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति । आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम्
सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् । स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा
सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति । प्राणेन तिर्यङ्प्राणति यस्मिन् ज्येष्ठमधि श्रितम्
यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु । स विद्वान् ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत्
{२७} अपादग्रे समभवत्सो अग्रे स्वराभरत्। चतुष्पाद्भूत्वा भोग्यः सर्वमादत्त भोजनम्
भोग्यो भवदथो अन्नमदद्बहु । यो देवमुत्तरावन्तमुपासातै सनातनम्
सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः । अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः
शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन् निविष्टम् । तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचतेष एतत्
बालादेकमणीयस्कमुतैकं नेव दृश्यते । ततः परिष्वजीयसी देवता सा मम प्रिया
इयं कल्याण्यजरा मर्त्यस्यामृता गृहे । यस्मै कृता शये स यश्चकार जजार सः
त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी॥ त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः
उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः । एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः
पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते । उतो तदद्य विद्याम यतस्तत्परिषिच्यते
एषा सनत्नी सनमेव जातैषा पुराणी परि सर्वं बभूव । मही देव्युषसो विभाती सैकेनैकेन मिषता वि चष्टे
{२८} अविर्वै नाम देवतर्तेनास्ते परीवृता । तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः
अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति । देवस्य पश्य काव्यं न ममार न जीर्यति
अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम् । वदन्तीर्यत्र गच्छन्ति तदाहुर्ब्राह्मणं महत्
यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः । अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम्
येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः । य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन्
इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव । दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके
यो विद्यात्सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः । सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत्
वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः । सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद्
यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः । यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम्
अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन्॥ बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश
उत्तरेणेव गयत्रीममृतेऽधि वि चक्रमे । साम्ना ये साम संविदुरजस्तद्ददृशे क्व
निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा । इन्द्रो न तस्थौ समरे धनानाम्
पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम् । तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः
अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः । तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम्