स्कम्भे लोकाः स्कम्भे तपः स्कम्भेऽध्यृतमाहितम् । स्कम्भ त्वा वेद प्रत्यक्षमिन्द्रे सर्वं समाहितम्
इन्द्रे लोका इन्द्रे तप इन्द्रेऽध्यृतमाहितम् । इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्वं प्रतिष्ठितम्
{२४} नाम नाम्ना जोहवीति पुरा सूर्यात्पुरोषसः । यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान् नान्यत्परमस्ति भूतम्
यस्य भूमिः प्रमान्तरिक्षमुतोदरम् । दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः
यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्णवः । अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः
यस्य वातः प्राणापानौ चक्षुरङ्गिरसोऽभवन् । दिशो यश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नमः
स्कम्भो दाधार द्यावापृथिवी उभे इमे स्कम्भो दाधारोर्वन्तरिक्षम् । स्कम्भो दाधार प्रदिशः षडुर्वीः स्कम्भ इदं विश्वं भुवनमा विवेश
यः श्रमात्तपसो जातो लोकान्त्सर्वान्त्समानशे । सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः
कथं वातो नेलयति कथं न रमते मनः । किमापः सत्यं प्रेप्सन्तीर्नेलयन्ति कदा चन
महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे । तस्मिन् छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः
यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा । यस्मै देवाः सदा बलिं प्रयच्छन्ति विमितेऽमितं स्कम्भं तं ब्रूहि कतमः स्विदेव सः
अप तस्य हतं तमो व्यावृत्तः स पाप्मना । सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ
यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद । स वै गुह्यः प्रजापतिः
तन्त्रमेके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम् । प्रान्या तन्तूंस्तिरते धत्ते अन्या नाप वृञ्जाते न गमातो अन्तम्
तयोरहं परिनृत्यन्त्योरिव न वि जानामि यतरा परस्तात्। पुमान् एनद्वयत्युद्गृणन्ति पुमान् एनद्वि जभाराधि नाके
इमे मयूखा उप तस्तभुर्दिवं सामानि चक्रुस्तसराणि वातवे
10.8 यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति । स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः
स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः । स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन् निमिषच्च यत्
तिस्रो ह प्रजा अत्यायमायन् न्यन्या अर्कमभितोऽविशन्त । बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश
द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत । तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये
इदं सवितर्वि जानीहि षड्यमा एक एकजः । तस्मिन् हापित्वमिच्छन्ते य एषामेक एकजः
आविः सन् निहितं गुहा जरन् नाम महत्पदम् । तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम्
एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा । अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव
पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति । अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः
तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् । तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः
या पुरस्ताद्युज्यते या च पश्चाद्या विश्वतो युज्यते या च सर्वतः । यया यज्ञः प्राङ्तायते तां त्वा पृच्छामि कतमा सर्चाम्
{२६} यदेजति पतति यच्च तिष्ठति प्राणदप्राणन् निमिषच्च यद्भुवत्। तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव
अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते । ते नाकपालश्चरति विचिन्वन् विद्वान् भूतमुत भव्यमस्य
प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते । अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः
ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम् । पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः