यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । तमापो बिभ्रतीर्मणिं सदा धावन्त्यक्षिताः । स आभ्योऽमृतमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवम् । सो अस्मै सत्यमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । तं देवा बिभ्रतो मणिं सर्वांल्लोकान् युधाजयन् । स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । तमिमं देवता मणिं प्रत्यमुञ्चन्त शम्भुवम् । स आभ्यो विश्वमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
ऋतवस्तमबध्नतार्तवास्तमबध्नत । संवत्सरस्तं बद्ध्वा सर्वं भूतं वि रक्षति
अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत । प्रजापतिसृष्टो मणिर्द्विषतो मेऽधरामकः
अथर्वाणो अबध्नताथर्वणा अबध्नत । तैर्मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस्तेन त्वं द्विषतो जहि
{१९} तं धाता प्रत्यमुञ्चत स भूतं व्यकल्पयत्। तेन त्वं द्विषतो जहि
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । स मायं मणिरागमद्रसेन सह वर्चसा
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । स मायं मणिरागमत्सह गोभिरजाविभिरन्नेन प्रजया सह
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । स मायं मणिरागमत्सह व्रीहियवाभ्यां महसा भूत्या सह
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । स मायं मणिरागमन् मधोर्घृतस्य धारया कीलालेन मणिः सह
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । स मायं मणिरागमदूर्जया पयसा सह द्रविणेन श्रिया सह
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । स मायं मणिरागमत्तेजसा त्विष्या सह यशसा कीर्त्या सह
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । स मायं मणिरागमत्सर्वाभिर्भूतिभिः सह
तमिमं देवता मणिं मह्यं ददतु पुष्टये । अभिभुं क्षत्रवर्धनं सपत्नदम्भनं मणिम्
ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम् । असपत्नः सपत्नहा सपत्नान् मेऽधरामकः
{२०} उत्तरं द्विषतो मामयं मणिः कृणोतु देवजाः । यस्य लोका इमे त्रयः पयो दुग्धमुपासते । स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः
यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा । स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः
यथा बीजमुर्वरायां कृष्टे फालेन रोहति । एवा मयि प्रजा पशवोऽन्नमन्नं वि रोहतु
यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम् । तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात्
एतमिध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः । तस्मिन् विधेम सुमतिं स्वस्ति प्रजां चक्षुः पशून्त्समिद्धे जातवेदसि ब्रह्मणा
10.7 कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति कस्मिन्न् अङ्ग ऋतमस्याध्याहितम् । क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्न् अङ्गे सत्यमस्य प्रतिष्ठितम्
कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्व । कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम्
कस्मिन्न् अङ्गे तिष्ठति भूमिरस्य कस्मिन्न् अङ्गे तिष्ठत्यन्तरिक्षम् । कस्मिन्न् अङ्गे तिष्ठत्याहिता द्यौः कस्मिन्न् अङ्गे तिष्ठत्युत्तरं दिवः
क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा । यत्र प्रेप्सन्तीरभियन्त्यावृतः स्कम्भं तं ब्रूहि कतमः स्विदेव सः
क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः । यत्र यन्त्यृतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विदेव सः
क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने । यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव सः
यस्मिन्त्स्तब्ध्वा प्रजापतिर्लोकान्त्सर्वामधारयत्। स्कम्भं तं ब्रूहि कतमः स्विदेव सः
यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम् । कियता स्कम्भः प्र विवेश तत्र यन् न प्राविशत्कियत्तद्बभूव