हिरण्यस्रगयं मणिः श्रद्धां यज्ञं महो दधत्। गृहे वसतु नोऽतिथिः
तस्मै घृतं सुरं मध्वन्नमन्नं क्षदामहे । स नः पितेव पुत्रेभ्यः श्रेयःश्रेयश्चिकित्सतु भूयोभूयः श्वःश्वो देवेभ्यो मणिरेत्य
यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे । तमग्निः प्रत्यमुञ्चत सो अस्मै दुह आज्यं भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे । तमिन्द्रः प्रत्यमुञ्चतौजसे वीर्याय कम् । सो अस्मै बलमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे । तं सोमः प्रत्यमुञ्चत महे श्रोत्राय चक्षसे । सो अस्मै वर्च इद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे । तं सूर्यः प्रत्यमुञ्चत तेनेमा अजयद्दिशः । सो अस्मै भूतिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे । तं बिभ्रच्चन्द्रमा मणिमसुराणां पुरोऽजयद्दानवानां हिरण्ययीः । सो अस्मै श्रियमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
{१८} यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । सो अस्मै वाजिनमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । तेनेमां मणिना कृषिमश्विनावभि रक्षतः । स भिषग्भ्यां महो दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । तं बिभ्रत्सविता मणिं तेनेदमजयत्स्वः । सो अस्मै सूनृतां दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । तमापो बिभ्रतीर्मणिं सदा धावन्त्यक्षिताः । स आभ्योऽमृतमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवम् । सो अस्मै सत्यमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । तं देवा बिभ्रतो मणिं सर्वांल्लोकान् युधाजयन् । स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । तमिमं देवता मणिं प्रत्यमुञ्चन्त शम्भुवम् । स आभ्यो विश्वमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि
ऋतवस्तमबध्नतार्तवास्तमबध्नत । संवत्सरस्तं बद्ध्वा सर्वं भूतं वि रक्षति
अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत । प्रजापतिसृष्टो मणिर्द्विषतो मेऽधरामकः
अथर्वाणो अबध्नताथर्वणा अबध्नत । तैर्मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस्तेन त्वं द्विषतो जहि
{१९} तं धाता प्रत्यमुञ्चत स भूतं व्यकल्पयत्। तेन त्वं द्विषतो जहि
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । स मायं मणिरागमद्रसेन सह वर्चसा
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । स मायं मणिरागमत्सह गोभिरजाविभिरन्नेन प्रजया सह
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । स मायं मणिरागमत्सह व्रीहियवाभ्यां महसा भूत्या सह
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । स मायं मणिरागमन् मधोर्घृतस्य धारया कीलालेन मणिः सह
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । स मायं मणिरागमदूर्जया पयसा सह द्रविणेन श्रिया सह
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । स मायं मणिरागमत्तेजसा त्विष्या सह यशसा कीर्त्या सह
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । स मायं मणिरागमत्सर्वाभिर्भूतिभिः सह
तमिमं देवता मणिं मह्यं ददतु पुष्टये । अभिभुं क्षत्रवर्धनं सपत्नदम्भनं मणिम्
ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम् । असपत्नः सपत्नहा सपत्नान् मेऽधरामकः
{२०} उत्तरं द्विषतो मामयं मणिः कृणोतु देवजाः । यस्य लोका इमे त्रयः पयो दुग्धमुपासते । स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः
यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा । स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः
यथा बीजमुर्वरायां कृष्टे फालेन रोहति । एवा मयि प्रजा पशवोऽन्नमन्नं वि रोहतु