सूर्य यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः
चन्द्र यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः
चन्द्र यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः
चन्द्र यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः
चन्द्र यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः
चन्द्र यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः
आपो यद्वस्तपस्तेन तं प्रति तपत योऽस्मान् द्वेष्टि यं वयं द्विष्मः
आपो यद्वस्हरस्तेन तं प्रति हरत योऽस्मान् द्वेष्टि यं वयं द्विष्मः
आपो यद्वस्ऽर्चिस्तेन तं प्रति अर्चत योऽस्मान् द्वेष्टि यं वयं द्विष्मः
आपो यद्वस्शोचिस्तेन तं प्रति शोचत योऽस्मान् द्वेष्टि यं वयं द्विष्मः
आपो यद्वस्तेजस्तेन तमतेजसं कृणुत योऽस्मान् द्वेष्टि यं वयं द्विष्मः
शेरभक शेरभ पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त
शेवृधक शेवृध पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त
म्रोकानुम्रोक पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त
सर्पानुसर्प पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त
जूर्णि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त
उपब्दे पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त
अर्जुनि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त
भरूजि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त
शं नो देवी पृश्निपर्ण्यशं निर्ऋत्या अकः । उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम्
सहमानेयं प्रथमा पृश्निपर्ण्यजायत । तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेरिव
अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति । गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च
गिरिमेनामा वेशय कण्वान् जीवितयोपनान् । तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्न् इहि
पराच एनान् प्र णुद कण्वान् जीवितयोपनान् । तमांसि यत्र गच्छन्ति तत्क्रव्यादो अजीगमम्
एह यन्तु पशवो ये परेयुर्वायुर्येषां सहचारं जुजोष । त्वष्टा येषां रूपधेयानि वेदास्मिन् तान् गोष्ठे सविता नि यच्छतु
इमं गोष्ठं पशवः सं स्रवन्तु बृहस्पतिरा नयतु प्रजानन् । सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमते नि यच्छ
सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः । सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि
सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम् । संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ
आ हरामि गवां क्षीरमाहार्षं धान्यं रसम् । आहृता अस्माकं वीरा आ पत्नीरिदमस्तकम्
नेच्छत्रुः प्राशं जयाति सहमानाभिभूरसि । प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे