यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः । एवा सपत्नांस्त्वं मम प्र क्षिणीहि न्यर्पय । पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु
तांस्त्वं प्र छिन्द्धि वरण पुरा दिष्टात्पुरायुषः । य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः
यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
यथा यशः पृथिव्यां यथास्मिन् जातवेदसि । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
यथा यशः कन्यायां यथास्मिन्त्संभृते रथे । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
{८} यथा यशः सोमपीथे मधुपर्के यथा यशः । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
यथा यशोऽग्निहोत्रे वषट्कारे यथा यशः । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
यथा यशो यजमाने यथास्मिन् यज्ञ आहितम् । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
यथा यशः प्रजापतौ यथास्मिन् परमेष्ठिनि । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
यथा देवेष्वमृतं यथैषु सत्यमाहितम् । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
इन्द्रस्य प्रथमो रथो देवानामपरो रथो वरुणस्य तृतीय इत्। अहीनामपमा रथ स्थानुमारदथार्षत्
दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः । रथस्य बन्धुरम्
अव श्वेत पदा जहि पूर्वेण चापरेण च । उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम्
अरंघुषो निमज्योन्मज पुनरब्रवीत्। उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम्
पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रमुतासितम् । पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः
पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि । अहीन् व्यस्यतात्पथो येन स्मा वयमेमसि
इदं पैद्वो अजायतेदमस्य परायणम् । इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः
संयतं न वि ष्परद्व्यात्तं न सं यमत्। अस्मिन् क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा
अरसास इहाहयो ये अन्ति ये च दूरके । घनेन हन्मि वृश्चिकमहिं दण्डेनागतम्
अघाश्वस्येदं भेषजमुभयो स्वजस्य च । इन्द्रो मेऽहिमघायन्तमहिं पैद्वो अरन्धयत्
{१०} पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः । इमे पश्चा पृदाकवः प्रदीध्यत आसते
नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा । जघानेन्द्रो जघ्निमा वयम्
हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः । दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि
कैरातिका कुमारिका सका खनति भेषजम् । हिरण्ययीभिरभ्रिभिर्गिरीनामुप सानुषु
आयमगन् युवा भिषक्पृश्निहापराजितः । स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च
इन्द्रो मेऽहिमरन्धयन् मित्रश्च वरुणश्च । वातापर्जन्योभा
इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम् । स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम्
इन्द्रो जघान प्रथमं जनितारमहे तव । तेषामु तृह्यमाणानां कः स्वित्तेषामसद्रसः
सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम् । सिन्धोर्मध्यं परेत्य व्यनिजमहेर्विषम्