ऊर्ध्वो नु सृष्टा३ तिर्यङ्नु सृष्टा३ सर्वा दिशः पुरुष आ बभूवा३ । पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते
यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् । तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः
न वै तं चक्षुर्जहाति न प्राणो जरसः पुरा । पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते
अष्टाचक्रा नवद्वारा देवानां पूरयोध्या । तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः
तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते । तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः
प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् । पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम्
अयं मे वरणो मणिः सपत्नक्षयणो वृषा । तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः
प्रैणान् छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात्। अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वःश्वः
अयं मणिर्वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः । स ते शत्रून् अधरान् पादयाति पूर्वस्तान् दभ्नुहि ये त्वा द्विषन्ति
अयं ते कृत्यां विततां पौरुषेयादयं भयात्। अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते
वरणो वारयाता अयं देवो वनस्पतिः । यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन्
स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम् । परिक्षवाच्छकुनेः पापवादादयं मणिर्वरणो वारयिष्यते
अरात्यास्त्वा निर्ऋत्या अभिचारादथो भयात्। मृत्योरोजीयसो वधाद्वरणो वारयिष्यते
यन् मे माता यन् मे पिता भ्रातरो यच्च मे स्वा यदेनश्चकृमा वयम् । ततो नो वारयिष्यतेऽयं देवो वनस्पतिः
वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः । असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः
अरिष्टोऽहमरिष्टगुरायुष्मान्त्सर्वपूरुषः । तं मायं वरणो मणिः परि पातु दिशोदिशः
{७} अयं मे वरण उरसि राजा देवो वनस्पतिः । स मे शत्रून् वि बाधतामिन्द्रो दस्यून् इवासुरान्
इमं बिभर्मि वरणमायुष्मान् छतशारदः । स मे राष्ट्रं च क्षत्रं च पशून् ओजश्च मे दधत्
यथा वातो वनस्पतीन् वृक्षान् भनक्त्योजसा । एवा सपत्नान् मे भङ्ग्धि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु
यथा वातश्चाग्निश्च वृक्षान् प्सातो वनस्पतीन् । एवा सपत्नान् मे प्साहि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु
यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः । एवा सपत्नांस्त्वं मम प्र क्षिणीहि न्यर्पय । पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु
तांस्त्वं प्र छिन्द्धि वरण पुरा दिष्टात्पुरायुषः । य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः
यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
यथा यशः पृथिव्यां यथास्मिन् जातवेदसि । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
यथा यशः कन्यायां यथास्मिन्त्संभृते रथे । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
{८} यथा यशः सोमपीथे मधुपर्के यथा यशः । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
यथा यशोऽग्निहोत्रे वषट्कारे यथा यशः । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
यथा यशो यजमाने यथास्मिन् यज्ञ आहितम् । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा
यथा यशः प्रजापतौ यथास्मिन् परमेष्ठिनि । एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु । तेजसा मा समुक्षतु यशसा समनक्तु मा