मस्तिष्कमस्य यतमो ललाटं ककाटिकां प्रथमो यः कपालम् । चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः
प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्र्यः । आनन्दान् उग्रो नन्दांश्च कस्माद्वहति पूरुषः
आर्तिरवर्तिर्निर्ऋतिः कुतो नु पुरुषेऽमतिः । राद्धिः समृद्धिरव्यृद्धिर्मतिरुदितयः कुतः
{४} को अस्मिन्न् आपो व्यदधात्विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः । तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः
को अस्मिन् रूपमदधात्को मह्मानं च नाम च । गातुं को अस्मिन् कः केतुं कश्चरित्रानि पूरुषे
को अस्मिन् प्राणमवयत्को अपानं व्यानमु । समानमस्मिन् को देवोऽधि शिश्राय पूरुषे
को अस्मिन् यज्ञमदधादेको देवोऽधि पूरुषे । को अस्मिन्त्सत्यं कोऽनृतं कुतो मृत्युः कुतोऽमृतम्
को अस्मै वासः पर्यदधात्को अस्यायुरकल्पयत्। बलं को अस्मै प्रायच्छत्को अस्याकल्पयज्जवम्
केनापो अन्वतनुत केनाहरकरोद्रुचे । उषसं केनान्वैन्द्ध केन सायंभवं ददे
को अस्मिन् रेतो न्यदधात्तन्तुरा तायतामिति । मेधां को अस्मिन्न् अध्यौहत्को बाणं को नृतो दधौ
केनेमां भूमिमौर्णोत्केन पर्यभवद्दिवम् । केनाभि मह्ना पर्वतान् केन कर्माणि पुरुषः
केन पर्जन्यमन्वेति केन सोमं विचक्षणम् । केन यज्ञं च श्रद्धां च केनास्मिन् निहितं मनः
केन श्रोत्रियमाप्नोति केनेमं परमेष्ठिनम् । केनेममग्निं पूरुषः केन संवत्सरं ममे
{५} ब्रह्म श्रोत्रियमाप्नोति ब्रह्मेमं परमेष्ठिनम् । ब्रह्मेममग्निं पूरुषो ब्रह्म संवत्सरं ममे
केन देवामनु क्षियति केन दैवजनीर्विशः । केनेदमन्यन् नक्षत्रं केन सत्क्षत्रमुच्यते
ब्रह्म देवामनु क्षियति ब्रह्म दैवजनीर्विशः । ब्रह्मेदमन्यन् नक्षत्रं ब्रह्म सत्क्षत्रमुच्यते
केनेयं भूमिर्विहिता केन द्यौरुत्तरा हिता । केनेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम्
ब्रह्मणा भूमिर्विहिता ब्रह्म द्यौरुत्तरा हिता । ब्रह्मेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम्
मूर्धानमस्य संसीव्याथर्वा हृदयं च यत्। मस्तिष्कादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः
तद्वा अथर्वणः शिरो देवकोशः समुब्जितः । तत्प्राणो अभि रक्षति शिरो अन्नमथो मनः
ऊर्ध्वो नु सृष्टा३ तिर्यङ्नु सृष्टा३ सर्वा दिशः पुरुष आ बभूवा३ । पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते
यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् । तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः
न वै तं चक्षुर्जहाति न प्राणो जरसः पुरा । पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते
अष्टाचक्रा नवद्वारा देवानां पूरयोध्या । तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः
तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते । तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः
प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् । पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम्
अयं मे वरणो मणिः सपत्नक्षयणो वृषा । तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः
प्रैणान् छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात्। अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वःश्वः
अयं मणिर्वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः । स ते शत्रून् अधरान् पादयाति पूर्वस्तान् दभ्नुहि ये त्वा द्विषन्ति
अयं ते कृत्यां विततां पौरुषेयादयं भयात्। अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते