स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि । उत्तिष्ठैव परेहीतोऽज्ञाते किमिहेच्छसि
{२} ग्रीवास्ते कृत्ये पादौ चापि कर्त्स्यामि निर्द्रव । इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती
सोमो राजाधिपा मृडिता च भूतस्य नः पतयो मृडयन्तु
भवाशर्वावस्यतां पापकृते कृत्याकृते । दुष्कृते विद्युतं देवहेतिम्
यद्येयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा । सेतोऽष्टापदी भूत्वा पुनः परेहि दुछुने
अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि । जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम्
परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय । मृगः स मृगयुस्त्वं न त्वा निकर्तुमर्हति
उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा । उत पूर्वस्य निघ्नतो नि हन्त्यपरः प्रति
एतद्धि शृणु मे वचोऽथेहि यत एयथ । यस्त्वा चकार तं प्रति
अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः । यत्रयत्रासि निहिता ततस्त्वोत्थापयामसि पर्णाल्लघीयसी भव
यदि स्थ तमसावृता जालेनभिहिता इव । सर्वाः संलुप्येतः कृत्याः पुनः कर्त्रे प्र हिण्मसि
कृत्याकृतो वलगिनोऽभिनिष्कारिणः प्रजाम् । मृणीहि कृत्ये मोच्छिषोऽमून् कृत्याकृतो जहि
यथा सूर्यो मुच्यते तमसस्परि रात्रिं जहात्युषसश्च केतून् । एवाहं सर्वं दुर्भूतं कर्त्रं कृत्याकृता कृतं हस्तीव रजो दुरितं जहामि
केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ । केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम्
कस्मान् नु गुल्फावधरावकृण्वन्न् अष्ठीवन्तावुत्तरौ पूरुषस्य । जङ्घे निर्ऋत्य न्यदधुः क्व स्विज्जानुनोः संधी क उ तच्चिकेत
चतुष्टयं युजते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम् । श्रोणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुदृढं बभूव
कति देवाः कतमे त आसन् य उरो ग्रीवाश्चिक्युः पुरुषस्य । कति स्तनौ व्यदधुः कः कफोदौ कति स्कन्धान् कति पृष्टीरचिन्वन्
को अस्य बाहू समभरद्वीर्यां करवादिति । अंसौ को अस्य तद्देवः कुसिन्धे अध्या दधौ
कः सप्त खानि वि ततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम् । येषां पुरुत्रा विजयस्य मह्ननि चतुष्पादो द्विपदो यन्ति यामम्
हन्वोर्हि जिह्वामदधात्पुरूचीमधा महीमधि शिश्राय वाचम् । स आ वरीवर्ति भुवनेष्वन्तरपो वसानः क उ तच्चिकेत
मस्तिष्कमस्य यतमो ललाटं ककाटिकां प्रथमो यः कपालम् । चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः
प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्र्यः । आनन्दान् उग्रो नन्दांश्च कस्माद्वहति पूरुषः
आर्तिरवर्तिर्निर्ऋतिः कुतो नु पुरुषेऽमतिः । राद्धिः समृद्धिरव्यृद्धिर्मतिरुदितयः कुतः
{४} को अस्मिन्न् आपो व्यदधात्विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः । तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः
को अस्मिन् रूपमदधात्को मह्मानं च नाम च । गातुं को अस्मिन् कः केतुं कश्चरित्रानि पूरुषे
को अस्मिन् प्राणमवयत्को अपानं व्यानमु । समानमस्मिन् को देवोऽधि शिश्राय पूरुषे
को अस्मिन् यज्ञमदधादेको देवोऽधि पूरुषे । को अस्मिन्त्सत्यं कोऽनृतं कुतो मृत्युः कुतोऽमृतम्
को अस्मै वासः पर्यदधात्को अस्यायुरकल्पयत्। बलं को अस्मै प्रायच्छत्को अस्याकल्पयज्जवम्
केनापो अन्वतनुत केनाहरकरोद्रुचे । उषसं केनान्वैन्द्ध केन सायंभवं ददे
को अस्मिन् रेतो न्यदधात्तन्तुरा तायतामिति । मेधां को अस्मिन्न् अध्यौहत्को बाणं को नृतो दधौ