ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । यस्तन् न वेद किमृचा करिष्यति य इत्तद्विदुस्ते अमी समासते
ऋचः पदं मात्रया कल्पयन्तोऽर्धर्चेन चकॢपुर्विश्वमेजत्। त्रिपाद्ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश्चतस्रः
सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम । अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती
{२७} गौरिन् मिमाय सलिलानि तक्षती एकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति
कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति । तमाववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः
अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत । गर्भो भारं भरत्या चिदस्या ऋतं पिपर्ति अनृतं नि पाति
विराड्वाग्विराट्पृथिवी विराडन्तरिक्षं विराट्प्रजापतिः । विराण्मृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु
शकमयं धूममारादपश्यं विषूवता पर एनावरेण । उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन्
त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् । विश्वमन्यो अभिचष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम्
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः
यां कल्पयन्ति वहतौ वधूमिव विश्वरूपां हस्तकृतां चिकित्सवः । सारादेत्वप नुदाम एनाम्
शीर्षण्वती नस्वती कर्णिणी कृत्याकृता संभृता विश्वरूपा । सारादेत्वप नुदाम एनाम्
शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता । जाया पत्या नुत्तेव कर्तारं बन्ध्वृच्छतु
अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् । यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु
अघमस्त्वघकृते शपथः शपथीयते । प्रत्यक्प्रतिप्रहिण्मो यथा कृत्याकृतं हनत्
प्रतीचीन आङ्गिरसोऽध्यक्षो नः पुरोहितः । प्रतीचीः कृत्या आकृत्यामून् कृत्याकृतो जहि
यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम् । तं कृत्येऽभिनिवर्तस्व मास्मान् इछो अनागसः
यस्ते परूंषि संदधौ रथस्येव र्भुर्धिया । तं गच्छ तत्र तेऽयनमज्ञातस्तेऽयं जनः
ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः । शंभ्विदं कृत्यादूषणं प्रतिवर्त्म पुनःसरं तेन त्वा स्नपयामसि
यद्दुर्भगां प्रस्नपितां मृतवत्सामुपेयिम । अपैतु सर्वं मत्पापं द्रविणं मोप तिष्ठतु
{१} यत्ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः । संदेश्यात्सर्वस्मात्पापादिमा मुञ्चन्तु त्वौषधीः
देवैनसात्पित्र्यान् नामग्राहात्संदेश्यादभिनिष्कृतात्। मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणा ऋग्भिः पयसा ऋषीणाम्
यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम् । एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति
अप क्राम नानदती विनद्धा गर्दभीव । कर्तॄन् नक्षस्वेतो नुत्ता ब्रह्मणा वीर्यावता
अयं पन्थाः कृत्येति त्वा नयामोऽभिप्रहितां प्रति त्वा प्र हिण्मः । तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूतिनी
पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व । परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि
वात इव वृक्षान् नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम् । कर्तॄन् निवृत्येतः कृत्येऽप्रजास्त्वाय बोधय
यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः । अग्नौ वा त्वा गार्हपत्येऽभिचेरुः पाकं सन्तं धीरतरा अनागसम्
उपाहृतमनुबुद्धं निखातं वैरं त्सार्यन्वविदाम कर्त्रम् । तदेतु यत आभृतं तत्राश्व इव वि वर्ततां हन्तु कृत्याकृतः प्रजाम्