अभ्रं पीबो मज्जा निधनम्
अग्निरासीन उत्थितोऽश्विना
इन्द्रः प्राङ्तिष्ठन् दक्षिणा तिष्ठन् यमः
प्रत्यङ्तिष्ठन् धातोदङ्तिष्ठन्त्सविता
तृणानि प्राप्तः सोमो राजा
मित्र ईक्षमाण आवृत्त आनन्दः
युज्यमानो वैश्वदेवो युक्तः प्रजापतिर्विमुक्तः सर्वम्
एतद्वै विश्वरूपं सर्वरूपं गोरूपम्
उपैनं विश्वरूपाः सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद
शीर्षक्तिं शीर्षामयं कर्णशूलं विलोहितम् । सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे
कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम् । सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे
यस्य हेतोः प्रच्यवते यक्ष्मः कर्णतो आस्यतः । सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे
यः कृणोति प्रमोतमन्धं कृणोति पूरुषम् । सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे
अङ्गभेदमङ्गज्वरं विश्वाङ्ग्यं विसल्पकम् । सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे
यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम् । तक्मानं विश्वशारदं बहिर्निर्मन्त्रयामहे
य ऊरू अनुसर्पत्यथो एति गवीनिके । यक्ष्मं ते अन्तरङ्गेभ्यो बहिर्निर्मन्त्रयामहे
यदि कामादपकामाद्धृदयाज्जायते परि । हृदो बलासमङ्गेभ्यो बहिर्निर्मन्त्रयामहे
हरिमाणं ते अङ्गेभ्योऽप्वामन्तरोदरात्। यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे
आसो बलासो भवतु मूत्रं भवत्वामयत्। यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्
{२२} बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्। यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्
उदरात्ते क्लोम्नो नाभ्या हृदयादधि । यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्
याः सीमानं विरुजन्ति मूर्धानं प्रत्यर्षनीः । अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम्
या हृदयमुपर्षन्त्यनुतन्वन्ति कीकसाः । अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम्
याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पृष्टीः । अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम्
यास्तिरश्चीः उपर्षन्त्यर्षणीर्वक्षणासु ते । अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम्
या गुदा अनुसर्पन्त्यान्त्राणि मोहयन्ति च । अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम्
या मज्ज्ञो निर्धयन्ति परूंषि विरुजन्ति च । अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम्
ये अङ्गानि मदयन्ति यक्ष्मासो रोपणास्तव । यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्
विसल्पस्य विद्रधस्य वातीकारस्य वालजेः । यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्
पादाभ्यां ते जानुभ्यां श्रोणिभ्यां परि भंससः । अनूकादर्षणीरुष्णिहाभ्यः शीर्ष्णो रोगमनीनशम्