इन्द्राणी भसद्वायुः पुच्छं पवमानो बालाः
ब्रह्म च क्षत्रं च श्रोणी बलमूरू
धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफाः
चेतो हृदयं यकृन् मेधा व्रतं पुरीतत्
क्षुत्कुक्षिरिरा वनिष्ठुः पर्वताः प्लाशयः
क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः
नदी सूत्री वर्षस्य पतय स्तना स्तनयित्नुरूधः
विश्वव्यचाश्चर्मौषधयो लोमानि नक्षत्राणि रूपम्
देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम्
रक्षांसि लोहितमितरजना ऊबध्यम्
अभ्रं पीबो मज्जा निधनम्
अग्निरासीन उत्थितोऽश्विना
इन्द्रः प्राङ्तिष्ठन् दक्षिणा तिष्ठन् यमः
प्रत्यङ्तिष्ठन् धातोदङ्तिष्ठन्त्सविता
तृणानि प्राप्तः सोमो राजा
मित्र ईक्षमाण आवृत्त आनन्दः
युज्यमानो वैश्वदेवो युक्तः प्रजापतिर्विमुक्तः सर्वम्
एतद्वै विश्वरूपं सर्वरूपं गोरूपम्
उपैनं विश्वरूपाः सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद
शीर्षक्तिं शीर्षामयं कर्णशूलं विलोहितम् । सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे
कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम् । सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे
यस्य हेतोः प्रच्यवते यक्ष्मः कर्णतो आस्यतः । सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे
यः कृणोति प्रमोतमन्धं कृणोति पूरुषम् । सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे
अङ्गभेदमङ्गज्वरं विश्वाङ्ग्यं विसल्पकम् । सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे
यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम् । तक्मानं विश्वशारदं बहिर्निर्मन्त्रयामहे
य ऊरू अनुसर्पत्यथो एति गवीनिके । यक्ष्मं ते अन्तरङ्गेभ्यो बहिर्निर्मन्त्रयामहे
यदि कामादपकामाद्धृदयाज्जायते परि । हृदो बलासमङ्गेभ्यो बहिर्निर्मन्त्रयामहे
हरिमाणं ते अङ्गेभ्योऽप्वामन्तरोदरात्। यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे
आसो बलासो भवतु मूत्रं भवत्वामयत्। यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्
{२२} बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्। यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्