एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात्
अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय यज्ञस्याविच्छेदाय तद्व्रतम्
एतद्वा उ स्वादीयो यदधिगवं क्षीरं वा मांसं वा तदेव नाश्नीयात्
स य एवं विद्वान् क्षीरमुपसिच्योपहरति । यावदग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे
स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति । यावदतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे
स य एवं विद्वान् मधूपसिच्योपहरति । यावद्सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे
स य एवं विद्वान् मांसमुपसिच्योपहरति । यावद्द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे
स य एवं विद्वान् उदकमुपसिच्योपहरति । प्रजानां प्रजननाय गच्छति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वान् उपसिच्योपहरति
तस्मा उषा हिङ्कृणोति सविता प्र स्तौति । बृहस्पतिरूर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम्
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद
तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति । मध्यन्दिन उद्गायत्यपराह्णः प्रति हरत्यस्तंयन् निधनम् । निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद
तस्मा अभ्रो भवन् हिङ्कृणोति स्तनयन् प्र स्तौति । विद्योतमानः प्रति हरति वर्षन्न् उद्गायत्युद्गृह्णन् निधनम् । निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद
अतिथीन् प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति । उप हरति प्रति हरत्युच्छिष्टं निधनम् । निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद
9.7 प्रजापतिश्च परमेष्ठी च शृङ्गे इन्द्रः शिरो अग्निर्ललाटं यमः कृकाटम्
सोमो राजा मस्तिष्को द्यौरुत्तरहनुः पृथिव्यधरहनुः
विद्युज्जिह्वा मरुतो दन्ता रेवतीर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः
विश्वं वायुः स्वर्गो लोकः कृष्णद्रं विधरणी निवेष्यः
श्येनः क्रोडोऽन्तरिक्षं पाजस्यं बृहस्पतिः ककुद्बृहतीः कीकसाः
देवानां पत्नीः पृष्टय उपसदः पर्शवः
मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू
इन्द्राणी भसद्वायुः पुच्छं पवमानो बालाः
ब्रह्म च क्षत्रं च श्रोणी बलमूरू
धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफाः
चेतो हृदयं यकृन् मेधा व्रतं पुरीतत्
क्षुत्कुक्षिरिरा वनिष्ठुः पर्वताः प्लाशयः
क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः
नदी सूत्री वर्षस्य पतय स्तना स्तनयित्नुरूधः
विश्वव्यचाश्चर्मौषधयो लोमानि नक्षत्राणि रूपम्
देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम्
रक्षांसि लोहितमितरजना ऊबध्यम्