पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति
ऊर्जां च वा एष स्फातिं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति
प्रजां वा एष पशूंश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति
कीर्तिं वा एष यशश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति
श्रियं वा एष संविदं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति
एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात्
अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय यज्ञस्याविछेदाय तद्व्रतम्
एतद्वा उ स्वादीयो यदधिगवं क्षीरं वा मांसं वा तदेव नाश्नीयात्
{१७} स य एवं विद्वान् क्षीरमुपसिच्योपहरति । यावदग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे
स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति । यावदतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे
स य एवं विद्वान् मधूपसिच्योपहरति । यावद्सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे
स य एवं विद्वान् मांसमुपसिच्योपहरति । यावद्द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे
स य एवं विद्वान् उदकमुपसिच्योपहरति । प्रजानां प्रजननाय गच्छति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वान् उपसिच्योपहरति
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद
तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति । मध्यन्दिन उद्गायत्यपराह्णः प्रति हरत्यस्तंयन् निधनम् । निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद
तस्मा अभ्रो भवन् हिङ्कृणोति स्तनयन् प्र स्तौति । विद्योतमानः प्रति हरति वर्षन्न् उद्गायत्युद्गृह्णन् निधनम् । निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद
अतिथीन् प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति । उप हरति प्रति हरत्युच्छिष्टं निधनम् । निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद
{१९} यत्क्षत्तारं ह्वयत्या श्रावयत्येव तत्
यत्प्रतिशृणोति प्रत्याश्रावयत्येव तत्
यत्परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते
तेषां न कश्चनाहोता
यद्वा अतिथिपतिरतिथीन् परिविष्य गृहान् उपोदैत्यवभृथमेव तदुपावैति
यत्सभागयति दक्षिणाः सभागयति यदनुतिष्ठत उदवस्यत्येव तत्
स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन् यत्पृथिव्यां विश्वरूपम्
स उपहूतोऽन्तरिक्षे भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम्
स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम्
स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम्
स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम्
स उपहूत उपहूतः
आप्नोतीमं लोकमाप्नोत्यमुम्