सामानि यस्य लोमानि यजुर्हृदयमुच्यते परिस्तरणमिद्धविः
यद्वा अतिथिपतिरतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते
यदभिवदति दीक्षामुपैति यदुदकं याचत्यपः प्र णयति
या एव यज्ञ आपः प्रणीयन्ते ता एव ताः
यत्तर्पणमाहरन्ति य एवाग्नीषोमीयः पशुर्बध्यते स एव सः
यदावसथान् कल्पयन्ति सदोहविर्धानान्येव तत्कल्पयन्ति
यदुपस्तृणन्ति बर्हिरेव तत्
यदुपरिशयनमाहरन्ति स्वर्गमेव तेन लोकमव रुन्द्धे
यत्कशिपूपबर्हणमाहरन्ति परिधय एव ते
यदाञ्जनाभ्यञ्जनमाहरन्त्याज्यमेव तत्
यत्पुरा परिवेषात्स्वादमाहरन्ति पुरोडाशावेव तौ
यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति
ये व्रीहयो यवा निरुप्यन्तेऽंशव एव ते
यान्युलूखलमुसलानि ग्रावाण एव ते
शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः
स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम्
{१५} यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३ इति
यदाह भूय उद्धरेति प्राणमेव तेन वर्षीयांसं कुरुते
उप हरति हवींष्या सादयति
तेषामासन्नानामतिथिरात्मन् जुहोति
स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण
एते वै प्रियाश्चाप्रियाश्च र्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः
स य एवं विद्वान् न द्विषन्न् अश्नीयान् न द्विषतोऽन्नमश्नीयान् न मीमांसितस्य न मीमांसमानस्य
सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति
सर्वो वा एसोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति
सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर्य उपहरति
प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति
प्रजापतेर्वा एष विक्रमान् अनुविक्रमते य उपहरति
योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन् पचन्ति स दक्षिणाग्निः
{१६} इष्टं च वा एष पूर्तं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति