गुदा आसन्त्सिनीवाल्याः सूर्यायास्त्वचमब्रुवन् । उत्थातुरब्रुवन् पद ऋषभं यदकल्पयन्
क्रोड आसीज्जामिशंसस्य सोमस्य क्लशो धृतः । देवाः संगत्य यत्सर्व ऋषभं व्यकल्पयन्
ते कुष्ठिकाः सरमायै कूर्मेभ्यो अदधुः शफान् । ऊबध्यमस्य कीटेभ्यः श्ववर्तेभ्यो अधारयन्
शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा । शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः
शतयाजं स यजते नैनं दुन्वन्त्यग्नयः । जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति
ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः । पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते
गावः सन्तु प्रजाः सन्त्वथो अस्तु तनूबलम् । तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने
अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम् । अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः
पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन् । आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम्
उपेहोपपर्चनास्मिन् गोष्ठ उप पृञ्च नः । उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम्
एतं वो युवानं प्रति दध्मो अत्र तेन क्रीडन्तीश्चरत वशामनु । मा नो हासिष्ट जनुषा सुभागा रायश्च पोषैरभि नः सचध्वम्
आ नयैतमा रभस्व सुकृतां लोकमपि गच्छतु प्रजानन् । तीर्त्वा तमांसि बहुधा महान्त्यजो नाकमा क्रमतां तृतीयम्
इन्द्राय भागं परि त्वा नयाम्यस्मिन् यज्ञे यजमानाय सूरिम् । ये नो द्विषन्त्यनु तान् रभस्वानागसो यजमानस्य वीराः
प्र पदोऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन् । तीर्त्वा तमांसि बहुधा विपश्यन्न् अजो नाकमा क्रमतां तृतीयम्
अनुछ्य श्यामेन त्वचमेतां विशस्तर्यथापर्वसिना माभि मंस्थाः । माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम्
ऋचा कुम्भीमध्यग्नौ श्रयाम्या सिञ्चोदकमव धेह्येनम् । पर्याधत्ताग्निना शमितारः शृतो गच्छतु सुकृतां यत्र लोकः
उत्क्रामातः परि चेदतप्तस्तप्ताच्चरोरधि नाकं तृतीयम् । अग्नेरग्निरधि सं बभूविथ ज्योतिष्मन्तमभि लोकं जयैतम्
अजो अग्निरजमु ज्योतिराहुरजं जीवता ब्रह्मणे देयमाहुः । अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः
पञ्चौदनः पञ्चधा वि क्रमतामाक्रंस्यमानस्त्रीणि ज्योतींषि । ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व
अजा रोह सुकृतां यत्र लोकः शरभो न चत्तोऽति दुर्गान्येषः । पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति
अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति । पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका
{११} एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेऽजं ददाति । अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः
ईजानानां सुकृतां लोकमीप्सन् पञ्चौदनं ब्रह्मणेऽजं ददाति । स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु
अजो ह्यग्नेरजनिष्ट शोकाद्विप्रो विप्रस्य सहसो विपश्चित्। इष्टं पूर्तमभिपूर्तं वषट्कृतं तद्देवा ऋतुशः कल्पयन्तु
अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम् । तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः
एतास्त्वाजोप यन्तु धाराः सोम्या देवीर्घृतपृष्ठा मधुश्चुतः । स्तभान् पृथिवीमुत द्यां नाकस्य पृष्ठेऽधि सप्तरश्मौ
अजोऽस्यज स्वर्गोऽसि त्वया लोकमङ्गिरसः प्राजानन् । तं लोकं पुण्यं प्र ज्ञेषम्
येना सहस्रं वहसि येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे
अजः पक्वः स्वर्गे लोके दधाति पञ्चौदनो निर्ऋतिं बाधमानः । तेन लोकान्त्सूर्यवतो जयेम
यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य । सर्वं तदग्ने सुकृतस्य लोके जानीतान् नः संगमने पथीनाम्