प्राच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः
दक्षिणाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः
प्रतीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः
उदीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः
ध्रुवाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः
ऊर्ध्वाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः
दिशोदिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः
साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत्। भद्रं दात्रे यजमानाय शीक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान्
अपां यो अग्रे प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी । पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु
पुमान् अन्तर्वान्त्स्थविरः पयस्वान् वसोः कबन्धमृषभो बिभर्ति । तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः
पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम् । वत्सो जरायु प्रतिधुक्पीयूष आमिक्षा घृतं तद्वस्य रेतः
देवानां भाग उपनाह एषोऽपां रस ओषधीनां घृतस्य । सोमस्य भक्षमवृणीत शक्रो बृहन्न् अद्रिरभवद्यच्छरीरम्
सोमेन पूर्णं कलशं बिभर्षि त्वष्टा रूपाणां जनिता पशूनाम् । शिवास्ते सन्तु प्रजन्व इह या इमा न्यस्मभ्यं स्वधिते यच्छ या अमूः
आज्यं बिभर्ति घृतमस्य रेतः साहस्रः पोषस्तमु यज्ञमाहुः । इन्द्रस्य रूपमृषभो वसानः सो अस्मान् देवाः शिव ऐतु दत्तः
इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत्। बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः
दैवीर्विशः पयस्वान् आ तनोषि त्वामिन्द्रं त्वां सरस्वन्तमाहुः । सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभमाजुहोति
बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः । अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभे स्ताम्
{९} य इन्द्र इव देवेषु गोष्वेति विवावदत्। तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया
पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ । अष्ठीवन्तावब्रवीन् मित्रो ममैतौ केवलाविति
भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः । पुच्छं वातस्य देवस्य तेन धूनोत्योषधीः
गुदा आसन्त्सिनीवाल्याः सूर्यायास्त्वचमब्रुवन् । उत्थातुरब्रुवन् पद ऋषभं यदकल्पयन्
क्रोड आसीज्जामिशंसस्य सोमस्य क्लशो धृतः । देवाः संगत्य यत्सर्व ऋषभं व्यकल्पयन्
ते कुष्ठिकाः सरमायै कूर्मेभ्यो अदधुः शफान् । ऊबध्यमस्य कीटेभ्यः श्ववर्तेभ्यो अधारयन्
शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा । शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः
शतयाजं स यजते नैनं दुन्वन्त्यग्नयः । जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति
ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः । पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते
गावः सन्तु प्रजाः सन्त्वथो अस्तु तनूबलम् । तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने
अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम् । अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः
पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन् । आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम्
उपेहोपपर्चनास्मिन् गोष्ठ उप पृञ्च नः । उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम्