जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान् । निरिन्द्रिया अरसाः सन्तु सर्वे मा ते जीविषुः कतमच्चनाहः
{३} अवधीत्कामो मम ये सपत्ना उरुं लोकमकरन् मह्यमेधतुम् । मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु
तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्। न सायकप्रणुत्तानां पुनरस्ति निवर्तनम्
अग्निर्यव इन्द्रो यवः सोमो यवः । यवयावानो देवा यवयन्त्वेनम्
असर्ववीरश्चरतु प्रणुत्तो द्वेष्यो मित्रानां परिवर्ग्यः स्वानाम् । उत पृथिव्यामव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत्सपत्नान्
च्युता चेयं बृहत्यच्युता च विद्युद्बिभर्ति स्तनयित्नूंश्च सर्वान् । उद्यन्न् आदित्यो द्रविणेन तेजसा नीचैः सपत्नान् नुदतां मे सहस्वान्
यत्ते काम शर्म त्रिवरूथमुद्भु ब्रह्म वर्म विततमनतिव्याध्यं कृतम् । तेन सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु
येन देवा असुरान् प्राणुदन्त येनेन्द्रो दस्यून् अधमं तमो निनाय । तेन त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम्
यथा देवा असुरान् प्राणुदन्त यथेन्द्रो दस्यून् अधमं तमो बबाधे । तथा त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम्
कामो जज्ञे प्रथमो नैनं देवा आपुः पितरो न मर्त्याः । ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि
यावती द्यावापृथिवी वरिम्णा यावदापः सिष्यदुर्यावदग्निः । ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि
{४} यावतीर्दिशः प्रदिशो विषूचीर्यावतीराशा अभिचक्षणा दिवः । ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि
यावतीर्भृङ्गा जत्वः कुरूरवो यावतीर्वघा वृक्षसर्प्यो बभूवुः । ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि
ज्यायान् निमिषतोऽसि तिष्ठतो ज्यायान्त्समुद्रादसि काम मन्यो । ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि
न वै वातश्चन काममाप्नोति नाग्निः सूर्यो नोत चन्द्रमाः । ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि
यास्ते शिवास्तन्वः काम भद्रा याभिः सत्यं भवति यद्वृणिषे । ताभिष्ट्वमस्मामभिसंविशस्वान्यत्र पापीरप वेशया धियः
उपमितां प्रतिमितामथो परिमितामुत । शालाया विश्ववाराया नद्धानि वि चृतामसि
यत्ते नद्धं विश्ववारे पाशो ग्रन्थिश्च यः कृतः । बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत्
आ ययाम सं बबर्ह ग्रन्थींश्चकार ते दृढान् । परूंषि विद्वां छस्तेवेन्द्रेण वि चृतामसि
वंशानां ते नहनानां प्राणाहस्य तृणस्य च । पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि
संदंशानां पलदानां परिष्वञ्जल्यस्य च । इदं मानस्य पत्न्या नद्धानि वि चृतामसि
यानि तेऽन्तः शिक्यान्याबेधू रण्याय कम् । प्र ते तानि चृतामसि शिवा मानस्य पत्नी न उद्धिता तन्वे भव
हविर्धानमग्निशालं पत्नीनां सदनं सदः । सदो देवानामसि देवि शाले
अक्षुमोपशं विततं सहस्राक्षं विषूवति । अवनद्धमभिहितं ब्रह्मणा वि चृतामसि
यस्त्वा शाले प्रतिगृह्णाति येन चासि मिता त्वम् । उभौ मानस्य पत्नि तौ जीवतां जरदष्टी
अमुत्रैनमा गच्छताद्दृढा नद्धा परिष्कृता । यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः
{६} यस्त्वा शाले निमिमाय संजभार वनस्पतीन् । प्रजायै चक्रे त्वा शाले परमेष्ठी प्रजापतिः
नमस्तस्मै नमो दात्रे शालापतये च कृण्मः । नमोऽग्नये प्रचरते पुरुषाय च ते नमः
गोभ्यो अश्वेभ्यो नमो यच्छालायां विजायते । विजावति प्रजावति वि ते पाशांश्चृतामसि
अग्निमन्तश्छादयसि पुरुषान् पशुभिः सह । विजावति प्रजावति वि ते पाशांश्चृतामसि