मातादित्यानां दुहिता वसूनां प्राणः प्रजानाममृतस्य नाभिः । हिरण्यवर्णा मधुकशा घृताची महान् भर्गश्चरति मर्त्येषु
मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूपः । तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे
कस्तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः । ब्रह्मा सुमेधाः सो अस्मिन् मदेत
स तौ प्र वेद स उ तौ चिकेत यावस्याः स्तनौ सहस्रधारावक्षितौ । ऊर्जं दुहाते अनपस्फुरन्तौ
हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम् । त्रीन् घर्मान् अभि वावशाना मिमाति मायुं पयते पयोभिः
यामापीनामुपसीदन्त्यापः शाक्वरा वृषभा ये स्वराजः । ते वर्षन्ति ते वर्षयन्ति तद्विदे काममूर्जमापः
स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि । अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः
{१} यथा सोमः प्रातःसवने अश्विनोर्भवति प्रियः । एवा मे अश्विना वर्च आत्मनि ध्रियताम्
यथा सोमो द्वितीये सवन इन्द्राग्न्योर्भवति प्रियः । एवा म इन्द्राग्नी वर्च आत्मनि ध्रियताम्
यथा सोमस्तृतीये सवन ऋभूणां भवति प्रियः । एवा म ऋभवो वर्च आत्मनि ध्रियताम्
मधु जनिषीय मधु वंसिषीय । पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा
सं माग्ने वर्चसा सृज सं प्रजया समायुषा । विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः
यथा मधु मधुकृतः संभरन्ति मधावधि । एवा मे अश्विना वर्च आत्मनि ध्रियताम्
यथा मक्षाः इदं मधु न्यञ्जन्ति मधावधि । एवा मे अश्विना वर्चस्तेजो बलमोजश्च ध्रियताम्
यद्गिरिषु पर्वतेषु गोष्वश्वेषु यन् मधु । सुरायां सिच्यमानायां यत्तत्र मधु तन् मयि
अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती । यथा वर्चस्वतीं वाचमावदानि जनामनु
स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यां दिवि । तां पशव उप जीवन्ति सर्वे तेनो सेषमूर्जं पिपर्ति
पृथिवी दण्डोऽन्तरिक्षं गर्भो द्यौः कशा विद्युत्प्रकशो हिरण्ययो बिन्दुः
यो वै कशायाः सप्त मधूनि वेद मधुमान् भवति । ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम्
मधुमान् भवति मधुमदस्याहार्यं भवति । मधुमतो लोकान् जयति य एवं वेद
यद्वीध्रे स्तनयति प्रजापतिरेव तत्प्रजाभ्यः प्रादुर्भवति । तस्मात्प्राचीनोपवीतस्तिष्ठे प्रजापतेऽनु मा बुध्यस्वेति । अन्वेनं प्रजा अनु प्रजापतिर्बुध्यते य एवं वेद
सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाज्येन । नीचैः सपत्नान् मम पादय त्वमभिष्टुतो महता वीर्येण
यन् मे मनसो न प्रियं चक्षुषो यन् मे बभस्ति नाभिनन्दति । तद्दुष्वप्न्यं प्रति मुञ्चामि सपत्ने कामं स्तुत्वोदहं भिदेयम्
दुष्वप्न्यं काम दुरितं च कमाप्रजस्तामस्वगतामवर्तिम् । उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यमंहूरणा चिकित्सात्
नुदस्व काम प्र णुदस्व कामावर्तिं यन्तु मम ये सपत्नाः । तेषां नुत्तानामधमा तमांस्यग्ने वास्तूनि निर्दह त्वम्
सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम् । तया सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु
कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितुः सवेन । अग्नेर्होत्रेण प्र णुदे सपत्नां छम्बीव नावमुदकेषु धीरः
अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव । विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम्
इदमाज्यं घृतवज्जुषाणाः कामज्येष्ठा इह मादयध्वम् । कृण्वन्तो मह्यमसपत्नमेव
इन्द्राग्नी काम सरथं हि भूत्वा नीचैः सपत्नान् मम पादयाथः । तेषां पन्नानामधमा तमांस्यग्ने वास्तून्यनुनिर्दह त्वम्