बृहच्च रथंतरं च द्वौ स्तनावास्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ
ओषधीरेव रथंतरेण देवा अदुह्रन् व्यचो बृहता
अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन
ओषधीरेवास्मै रथंतरं दुहे व्यचो बृहत्
अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद
सोदक्रामत्सा वनस्पतीन् आगच्छत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्। तस्माद्वनस्पतीनां संवत्सरे वृक्णमपि रोहति वृश्चतेऽस्याप्रियो भ्रातृव्यो य एवं वेद
सोदक्रामत्सा पितॄन् आगच्छत्तां पितरोऽघ्नत सा मासि समभवत्। तस्मात्पितृभ्यो मास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद
सोदक्रामत्सा देवान् आगच्छत्तां देवा अघ्नत सार्धमासे समभवत्। तस्माद्देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद
सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या अघ्नत सा सद्यः समभवत्। तस्मान् मनुष्येभ्य उभयद्युरुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद
सोदक्रामत्सासुरान् आगच्छत्तामसुरा उपाह्वयन्त माय एहीति । तस्या विरोचनः प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम् । तां द्विमूर्धार्त्व्योऽधोक्तां मायामेवाधोक्॥ तां मायामसुरा उप जीवन्त्युपजीवनीयो भवति य एवं वेद
सोदक्रामत्सा पितॄन् आगच्छत्तां पितर उपाह्वयन्त स्वध एहीति । तस्या यमो राजा वत्स आसीद्रजतपात्रं पात्रम् । तामन्तको मार्त्यवोऽधोक्तां स्वधामेवाधोक्। तां स्वधां पितर उप जीवन्त्युपजीवनीयो भवति य एवं वेद
सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या उपाह्वयन्तेरावत्येहीति । तस्या मनुर्वैवस्वतो वत्स आसीत्पृथिवी पात्रम् । तां पृथी वैन्योऽधोक्तां कृषिं च सस्यं चाधोक्। ते स्वधां कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिरुपजीवनीयो भवति य एवं वेद
सोदक्रामत्सा सप्तऋषीन् आगच्छत्तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति । तस्याः सोमो राजा वत्स आसीच्छन्दः पात्रम् । तां बृहस्पतिराङ्गिरसोऽधोक्तां ब्रह्म च तपश्चाधोक्। तद्ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद
सोदक्रामत्सा देवान् आगच्छत्तां देवा उपाह्वयन्तोर्ज एहीति । तस्या इन्द्रो वत्स आसीच्चमसः पात्रम् । तां देवः सविताधोक्तामूर्जामेवाधोक्। तामूर्जां देवा उप जीवन्त्युपजीवनीयो भवति य एवं वेद
सोदक्रामत्सा गन्धर्वाप्सरस आगच्छत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति । तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत्पुष्करपर्णं पात्रम् । तां वसुरुचिः सौर्यवर्चसोऽधोक्तां पुण्यमेव गन्धमधोक्। तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद
सोदक्रामत्सेतरजनान् आगच्छत्तामितरजना उपाह्वयन्त तिरोध एहीति । तस्याः कुबेरो वैश्रवणो वत्स आसीदामपात्रं पात्रम् । तां रजतनाभिः कबेरकोऽधोक्तां तिरोधामेवाधोक्। तां तिरोधामतिरजना पितर उप जीवन्ति तिरो धत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद
सोदक्रामत्सा सर्पान् आगच्छत्तां सर्पा उपाह्वयन्त विषवत्येहीति । तस्यास्तक्षको वैशालेयो वत्स आसीदलाबुपात्रं पात्रम् । तां धृतराष्ट्र ऐरावतोऽधोक्तां विषमेवाधोक्। तद्विषं सर्पा उप जीवन्त्युपजीवनीयो भवति य एवं वेद
दिवस्पृथिव्या अन्तरिक्षात्समुद्रादग्नेर्वातान् मधुकशा हि जज्ञे । तां चायित्वामृतं वसानां हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः
महत्पयो विश्वरूपमस्याः समुद्रस्य त्वोत रेत आहुः । यत ऐति मधुकशा रराणा तत्प्राणस्तदमृतं निविष्टम्
पश्यन्त्यस्याश्चरितं पृथिव्यां पृथङ्नरो बहुधा मीमांसमानाः । अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः
मातादित्यानां दुहिता वसूनां प्राणः प्रजानाममृतस्य नाभिः । हिरण्यवर्णा मधुकशा घृताची महान् भर्गश्चरति मर्त्येषु
मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूपः । तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे
कस्तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः । ब्रह्मा सुमेधाः सो अस्मिन् मदेत
स तौ प्र वेद स उ तौ चिकेत यावस्याः स्तनौ सहस्रधारावक्षितौ । ऊर्जं दुहाते अनपस्फुरन्तौ
हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम् । त्रीन् घर्मान् अभि वावशाना मिमाति मायुं पयते पयोभिः
यामापीनामुपसीदन्त्यापः शाक्वरा वृषभा ये स्वराजः । ते वर्षन्ति ते वर्षयन्ति तद्विदे काममूर्जमापः
स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि । अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः
{१} यथा सोमः प्रातःसवने अश्विनोर्भवति प्रियः । एवा मे अश्विना वर्च आत्मनि ध्रियताम्
यथा सोमो द्वितीये सवन इन्द्राग्न्योर्भवति प्रियः । एवा म इन्द्राग्नी वर्च आत्मनि ध्रियताम्
यथा सोमस्तृतीये सवन ऋभूणां भवति प्रियः । एवा म ऋभवो वर्च आत्मनि ध्रियताम्