सप्त छन्दांसि चतुरुत्तराण्यन्यो अन्यस्मिन्न् अध्यार्पितानि । कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथमार्पितानि
कथं गायत्री त्रिवृतं व्याप कथं त्रिष्टुप्पञ्चदशेन कल्पते । त्रयस्त्रिंशेन जगती कथमनुष्टुप्कथमेकविंशः
{२३} अष्ट जाता भूता प्रथमजा ऋतस्याष्टेन्द्रर्त्विजो दैव्या ये । अष्टयोनिरदितिरष्टपुत्राष्टमीं रात्रिमभि हव्यमेति
इत्थं श्रेयो मन्यमानेदमागमं युष्माकं सख्ये अहमस्मि शेवा । समानजन्मा क्रतुरस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन्
अष्टेन्द्रस्य षड्यमस्य ऋषीणां सप्त सप्तधा । अपो मनुष्यान् ओषधीस्तामु पञ्चानु सेचिरे
केवलीन्द्राय दुदुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना । अथातर्पयच्चतुरश्चतुर्धा देवान् मनुष्यानसुरान् उत ऋषीन्
को नु गौः क एकऋषिः किमु धाम का आशिषः । यक्षं पृथिव्यामेकवृदेकर्तुः कतमो नु सः
एको गौरेक एकऋषिरेकं धामैकधाशिषः । यक्षं पृथिव्यामेकवृदेकर्तुर्नाति रिच्यते
विराड्वा इदमग्र आसीत्तस्या जातायाः सर्वमबिभेदियमेवेदं भविष्यतीति
सोदक्रामत्सा गार्हपत्ये न्यक्रामत्। गृहमेधी गृहपतिर्भवति य एवं वेद
सोदक्रामत्साहवनीये न्यक्रामत्। यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद
सोदक्रामत्सा दक्षिणाग्नौ न्यक्रामत्। यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद
सोदक्रामत्सा सभायां न्यक्रामत्। यन्त्यस्य सभां सभ्यो भवति य एवं वेद
सोदक्रामत्सा समितौ न्यक्रामत्। यन्त्यस्य समितिं सामित्यो भवति य एवं वेद
सोदक्रामत्सामन्त्रणे न्यक्रामत्। यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद
सोदक्रामत्सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत्
तां देवमनुष्या अब्रुवन्न् इयमेव तद्वेद यदुभय उपजीवेमेमामुप ह्वयामहा इति
तामुपाह्वयन्त
ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति
तस्या इन्द्रो वत्स आसीद्गायत्र्यभिधान्यभ्रमूधः
बृहच्च रथंतरं च द्वौ स्तनावास्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ
ओषधीरेव रथंतरेण देवा अदुह्रन् व्यचो बृहता
अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन
ओषधीरेवास्मै रथंतरं दुहे व्यचो बृहत्
अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद
सोदक्रामत्सा वनस्पतीन् आगच्छत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्। तस्माद्वनस्पतीनां संवत्सरे वृक्णमपि रोहति वृश्चतेऽस्याप्रियो भ्रातृव्यो य एवं वेद
सोदक्रामत्सा पितॄन् आगच्छत्तां पितरोऽघ्नत सा मासि समभवत्। तस्मात्पितृभ्यो मास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद
सोदक्रामत्सा देवान् आगच्छत्तां देवा अघ्नत सार्धमासे समभवत्। तस्माद्देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद
सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या अघ्नत सा सद्यः समभवत्। तस्मान् मनुष्येभ्य उभयद्युरुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद
सोदक्रामत्सासुरान् आगच्छत्तामसुरा उपाह्वयन्त माय एहीति । तस्या विरोचनः प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम् । तां द्विमूर्धार्त्व्योऽधोक्तां मायामेवाधोक्॥ तां मायामसुरा उप जीवन्त्युपजीवनीयो भवति य एवं वेद