अप्राणैति प्राणेन प्राणतीनां विराट्स्वराजमभ्येति पश्चात्। विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्येनाम्
को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पमस्याः । क्रमान् को अस्याः कतिधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः
{२२} इयमेव सा या प्रथमा व्यौच्छदास्वितरासु चरति प्रविष्टा । महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री
छन्दःपक्षे उषसा पेपिशाने समानं योनिमनु सं चरेते । सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा
ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मा अनु रेत आगुः । प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम्
अग्नीषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः । गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तीम्
पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च । पञ्च दिशः पञ्चदशेन कॢप्तास्ता एकमूर्ध्नीरभि लोकमेकम्
षड्जाता भूता प्रथमजा ऋतस्य षडु सामानि षडहं वहन्ति । षड्योगं सीरमनु सामसाम षडााहुर्द्यावापृथिवीः षडुर्वीः
षडाहुः शीतान् षडु मास उष्णान् ऋतुं नो ब्रूत यतमोऽतिरिक्तः । सप्त सुपर्णाः कवयो नि षेदुः सप्त छन्दांस्यनु सप्त दीक्षाः
सप्त होमाः समिधो ह सप्त मधूनि सप्त ऋतवो ह सप्त । सप्ताज्यानि परि भूतमायन् ताः सप्तगृध्रा इति शुश्रुमा वयम्
सप्त छन्दांसि चतुरुत्तराण्यन्यो अन्यस्मिन्न् अध्यार्पितानि । कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथमार्पितानि
कथं गायत्री त्रिवृतं व्याप कथं त्रिष्टुप्पञ्चदशेन कल्पते । त्रयस्त्रिंशेन जगती कथमनुष्टुप्कथमेकविंशः
{२३} अष्ट जाता भूता प्रथमजा ऋतस्याष्टेन्द्रर्त्विजो दैव्या ये । अष्टयोनिरदितिरष्टपुत्राष्टमीं रात्रिमभि हव्यमेति
इत्थं श्रेयो मन्यमानेदमागमं युष्माकं सख्ये अहमस्मि शेवा । समानजन्मा क्रतुरस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन्
अष्टेन्द्रस्य षड्यमस्य ऋषीणां सप्त सप्तधा । अपो मनुष्यान् ओषधीस्तामु पञ्चानु सेचिरे
केवलीन्द्राय दुदुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना । अथातर्पयच्चतुरश्चतुर्धा देवान् मनुष्यानसुरान् उत ऋषीन्
को नु गौः क एकऋषिः किमु धाम का आशिषः । यक्षं पृथिव्यामेकवृदेकर्तुः कतमो नु सः
एको गौरेक एकऋषिरेकं धामैकधाशिषः । यक्षं पृथिव्यामेकवृदेकर्तुर्नाति रिच्यते
विराड्वा इदमग्र आसीत्तस्या जातायाः सर्वमबिभेदियमेवेदं भविष्यतीति
सोदक्रामत्सा गार्हपत्ये न्यक्रामत्। गृहमेधी गृहपतिर्भवति य एवं वेद
सोदक्रामत्साहवनीये न्यक्रामत्। यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद
सोदक्रामत्सा दक्षिणाग्नौ न्यक्रामत्। यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद
सोदक्रामत्सा सभायां न्यक्रामत्। यन्त्यस्य सभां सभ्यो भवति य एवं वेद
सोदक्रामत्सा समितौ न्यक्रामत्। यन्त्यस्य समितिं सामित्यो भवति य एवं वेद
सोदक्रामत्सामन्त्रणे न्यक्रामत्। यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद
सोदक्रामत्सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत्
तां देवमनुष्या अब्रुवन्न् इयमेव तद्वेद यदुभय उपजीवेमेमामुप ह्वयामहा इति
तामुपाह्वयन्त
ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति
तस्या इन्द्रो वत्स आसीद्गायत्र्यभिधान्यभ्रमूधः