अमून् अश्वत्थ निः शृणीहि खादामून् खदिराजिरम् । ताजद्भङ्ग इव भज्यन्तां हन्त्वेनान् वधको वधैः
परुषान् अमून् परुषाह्वः कृणोतु हन्त्वेनान् वधको वधैः । क्षिप्रं शर इव भज्यन्तां बृहज्जालेन संदिताः
अन्तरिक्षं जालमासीज्जालदण्डा दिशो महीः । तेनाभिधाय दस्यूनां शक्रः सेनामपावपत्
बृहद्धि जालं बृहतः शक्रस्य वाजिनीवतः । तेन शत्रून् अभि सर्वान् न्युब्ज यथा न मुच्यातै कतमश्चनैषाम्
बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य । तेन शतं सहस्रमयुतं न्यर्बुदं जघान शक्रो दस्यूनामभिधाय सेनया
अयं लोको जालमासीच्छक्रस्य महतो महान् । तेनाहमिन्द्रजालेनामूंस्तमसाभि दधामि सर्वान्
सेदिरुग्रा व्यृद्धिरार्तिश्चानपवाचना । श्रमस्तन्द्रीश्च मोहश्च तैरमून् अभि दधामि सर्वान्
मृत्यवेऽमून् प्र यछामि मृत्युपाशैरमी सिताः । मृत्योर्ये अघला दूतास्तेभ्य एनान् प्रति नयामि बद्ध्वा
{२०} नयतामून् मृत्युदूता यमदूता अपोम्भत । परःसहस्रा हन्यन्तां तृणेढ्वेनान् मत्यं भवस्य
साध्या एकं जालदण्डमुद्यत्य यन्त्योजसा । रुद्रा एकं वसव एकमादित्यैरेक उद्यतः
विश्वे देवाः उपरिष्टादुब्जन्तो यन्त्वोजसा । मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो महीम्
वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः । द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन्
गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् । दृष्टान् अदृष्टान् इष्णामि यथा सेनाममूं हनन्
इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे । अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः
घर्मः समिद्धो अग्निनायं होमः सहस्रहः । भवश्च पृश्निबाहुश्च शर्व सेनाममूं हतम्
मृत्योराषमा पद्यन्तां क्षुधं सेदिं वधं भयम् । इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम्
पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा । बृहस्पतिप्रनुत्तानां मामीषां मोचि कश्चन
अव पद्यन्तामेषामायुधानि मा शकन् प्रतिधामिषुम् । अथैषां बहु बिभ्यतामिषवः घ्नन्तु मर्मणि
सं क्रोशतामेनान् द्यावापृथिवी समन्तरिक्षं सह देवताभिः । मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम्
दिशश्चतस्रोऽश्वतर्यो देवरथस्य पुरोडाशाः शफा अन्तरिक्षमुद्धिः । द्यावापृथिवी पक्षसी ऋतवोऽभीशवोऽन्तर्देशाः किम्करा वाक्परिरथ्यम्
संवत्सरो रथः परिवत्सरो रथोपस्थो विराडीषाग्नी रथमुखम् । इन्द्रः सव्यष्ठाश्चन्द्रमाः सारथिः
इतो जयेतो वि जय सं जय जय स्वाहा । इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः । नीललोहितेनामून् अभ्यवतनोमि
कुतस्तौ जातौ कतमः सो अर्धः कस्माल्लोकात्कतमस्याः पृथिव्याः । वत्सौ विराजः सलिलादुदैतां तौ त्वा पृछामि कतरेण दुग्धा
यो अक्रन्दयत्सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः । वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः
यानि त्रीणि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम् । ब्रह्मैनद्विद्यात्तपसा विपश्चिद्यस्मिन्न् एकं युज्यते यस्मिन्न् एकम्
बृहतः परि सामानि षष्ठात्पञ्चाधि निर्मिता । बृहद्बृहत्या निर्मितं कुतोऽधि बृहती मिता
बृहती परि मात्राया मातुर्मात्राधि निर्मिता । माया ह जज्ञे मायाया मायाया मातली परि
वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्निः । ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः
षट् त्वा पृच्छाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च । विराजमाहुर्ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः
यां प्रच्युतामनु यज्ञाः प्रच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम् । यस्या व्रते प्रसवे यक्षमेजति सा विराडृषयः परमे व्योमन्