अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम् । तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति
सप्त प्राणान् अष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा । अया यमस्य सादनमग्निदूतो अरंकृतः
आ दधामि ते पदं समिद्धे जातवेदसि । अग्निः शरीरं वेवेष्ट्वसुं वागपि गच्छतु
आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रान् अभि रक्षतादिमम्
परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ
परीदं वासो अधिथाः स्वस्तयेऽभूर्गृष्टीनामभिशस्तिपा उ । शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व
एह्यश्मानमा तिष्ठाश्मा भवतु ते तनूः । कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम्
यस्य ते वासः प्रथमवास्यं हरामस्तं त्वा विश्वेऽवन्तु देवाः । तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम्
निःसालां धृष्णुं धिषणमेकवाद्यां जिघत्स्वम् । सर्वाश्चण्डस्य नप्त्यो नाशयामः सदान्वाः
निर्वो गोष्ठादजामसि निरक्षान् निरुपानशात्। निर्वो मगुन्द्या दुहितरो गृहेभ्यश्चातयामहे
असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः । तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः
भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः । गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु
यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः । यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः
परि धामान्यासामाशुर्गाष्ठामिवासरम् । अजैषं सर्वान् आजीन् वो नश्यतेतः सदान्वाः
यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः । एवा मे प्राण मा बिभेः
यथाहश्च रात्री च न बिभीतो न रिष्यतः । एवा मे प्राण मा बिभेः
यथा सूर्यश्च चन्द्रश्च न बिभीतो न रिष्यतः । एवा मे प्राण मा बिभेः
यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः । एवा मे प्राण मा बिभेः
यथा सत्यं चानृतं च न बिभीतो न रिष्यतः । एवा मे प्राण मा बिभेः
यथा भूतं च भव्यं च न बिभीतो न रिष्यतः । एवा मे प्राण मा बिभेः
प्राणापानौ मृत्योर्मा पातं स्वाहा
द्यावापृथिवी उपश्रुत्या मा पातं स्वाहा
सूर्य चक्षुषा मा पाहि स्वाहा
अग्ने वैश्वानर विश्वैर्मा देवैः पाहि स्वाहा
विश्वम्भर विश्वेन मा भरसा पाहि स्वाहा
ओजोऽस्योजो मे दाः स्वाहा ।१॥ सहोऽसि सहो मे दाः स्वाहा
बलमसि बलं दाः स्वाहा
आयुरस्यायुर्मे दाः स्वाह
श्रोत्रमसि श्रोत्रं मे दाः स्वाह
चक्षुरसि चक्षुर्मे दाः स्वाह