या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः । असिक्नीः कृष्णा ओषधीः सर्वा अच्छावदामसि
त्रायन्तामिमं पुरुषं यक्ष्माद्देवेषितादधि । यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव
आपो अग्रं दिव्या ओषधयः । तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन्
प्रस्तृणती स्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरा वदामि । अंशुमतीः कण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः
यद्वः सहः सहमाना वीर्यं१ यच्च वो बलम् । तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीरथो कृणोमि भेषजम्
जीवलां नघारिषां जीवन्तीमोषधीमहम् । अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये
इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम । यथेमं पारयामसि पुरुषं दुरितादधि
अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्णवाः । ध्रुवाः सहस्रनाम्नीर्भेषजीः सन्त्वाभृताः
अवकोल्बा उदकात्मान ओषधयः । व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः
उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषणीः । अथो बलासनाशनीः कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः
{१७} अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः । त्रायन्तामस्मिन् ग्रामे गामश्वं पुरुषं पशुम्
मधुमन् मूलं मधुमदग्रमासां मधुमन् मध्यं वीरुधां बभूव । मधुमत्पर्णं मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतस्य भक्षो घृतमन्नं दुह्रतां गोपुरोगवम्
यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः । ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः
वैयाघ्रो मणिर्वीरुधां त्रायमानोऽभिशस्तिपाः । अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत्
सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः । गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः
मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि । भूमिं संतन्वतीरित यासां राजा वनस्पतिः
या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च । ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे
याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा । अज्ञाता जानीमश्च या यासु विद्म च संभृतम्
सर्वाः समग्रा ओषधीर्बोधन्तु वचसो मम । यथेमं पारयामसि पुरुषं दुरितादधि
अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः । व्रीहिर्यवश्च भेषजौ दिवस्पुत्रावमर्त्यौ
{१८} उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः । यदा वः पृश्निमातरः पर्जन्यो रेतसावति
तस्यामृतस्येमं बलं पुरुषं पययामसि । अथो कृणोमि भेषजं यथासच्छतहायनः
वराहो वेद वीरुधं नकुलो वेद भेषजीम् । सर्पा गन्धर्वा या विदुस्ता अस्मा अवसे हुवे
याः सुपर्णा आङ्गिरसीर्दिव्या या रघटो विदुः । वयांसि हंसा या विदुर्यास्च सर्वे पतत्रिणः । मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे
यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यवतीनामजावयः । तावतीस्तुभ्यमोषधीः शर्म यच्छन्त्वाभृताः
यावतीषु मनुष्या भेषजं भिषजो विदुः । तावतीर्विश्वभेषजीरा भरामि त्वामभि
पुष्पवतीः प्रसूमतीः फलिनीरफला उत । संमातर इव दुह्रामस्मा अरिष्टतातये
उत्त्वाहार्षं पञ्चशलादथो दशशलादुत । अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्
इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः । यथा हनाम सेना अमित्राणां सहस्रशः
पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम् । धूममग्निं परादृश्याऽमित्रा हृत्स्वा दधतां भयम्