उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् । उपेषन्तमुदुम्बलं तुण्डेलमुत शालुडम् । पदा प्र विध्य पार्ष्ण्या स्थालीं गौरिव स्पन्दना
यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते । पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम्
ये अम्नो जतान् मारयन्ति सूतिका अनुशेरते । स्त्रीभागान् पिङ्गो गन्धर्वान् वातो अभ्रमिवाजतु
परिसृष्टं धरयतु यद्धितं माव पादि तत्। गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ
{१५} पवीनसात्तङ्गल्वाच्छायकादुत नग्नकात्। प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः
द्व्यास्याच्चतुरक्षात्पञ्चपदादनङ्गुरेः । वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात्
य आमं मांसमदन्ति पौरुषेयं च ये क्रविः । गर्भान् खादन्ति केशवास्तान् इतो नाशयामसि
ये सूर्यात्परिसर्पन्ति स्नुषेव श्वशुरादधि । बजश्च तेषां पिङ्गश्च हृदयेऽधि नि विध्यताम्
पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन् । आण्डादो गर्भान् मा दभन् बाधस्वेतः किमीदिनः
अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम् । वृक्षादिव स्रजं कृत्वाप्रिये प्रति मुञ्च तत्
या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः । असिक्नीः कृष्णा ओषधीः सर्वा अच्छावदामसि
त्रायन्तामिमं पुरुषं यक्ष्माद्देवेषितादधि । यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव
आपो अग्रं दिव्या ओषधयः । तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन्
प्रस्तृणती स्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरा वदामि । अंशुमतीः कण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः
यद्वः सहः सहमाना वीर्यं१ यच्च वो बलम् । तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीरथो कृणोमि भेषजम्
जीवलां नघारिषां जीवन्तीमोषधीमहम् । अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये
इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम । यथेमं पारयामसि पुरुषं दुरितादधि
अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्णवाः । ध्रुवाः सहस्रनाम्नीर्भेषजीः सन्त्वाभृताः
अवकोल्बा उदकात्मान ओषधयः । व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः
उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषणीः । अथो बलासनाशनीः कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः
{१७} अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः । त्रायन्तामस्मिन् ग्रामे गामश्वं पुरुषं पशुम्
मधुमन् मूलं मधुमदग्रमासां मधुमन् मध्यं वीरुधां बभूव । मधुमत्पर्णं मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतस्य भक्षो घृतमन्नं दुह्रतां गोपुरोगवम्
यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः । ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः
वैयाघ्रो मणिर्वीरुधां त्रायमानोऽभिशस्तिपाः । अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत्
सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः । गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः
मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि । भूमिं संतन्वतीरित यासां राजा वनस्पतिः
या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च । ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे
याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा । अज्ञाता जानीमश्च या यासु विद्म च संभृतम्
सर्वाः समग्रा ओषधीर्बोधन्तु वचसो मम । यथेमं पारयामसि पुरुषं दुरितादधि
अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः । व्रीहिर्यवश्च भेषजौ दिवस्पुत्रावमर्त्यौ