स्राक्त्येन मणिना ऋषिणेव मनीषिणा । अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः
याः कृत्या आङ्गिरसीर्याः कृत्या आसुरीर्याः । कृत्याः स्वयंकृता या उ चान्येभिराभृताः । उभयीस्ताः परा यन्तु परावतो नवतिं नाव्या अति
अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः । प्रजापतिः परमेष्ठी विराड्वैश्वानर ऋषयश्च सर्वे
{१२} उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव । यमैछामाविदाम तं प्रतिस्पाशनमन्तितम्
स इद्व्याघ्रो भवत्यथो सिंहो अथो वृषा । अथो सपत्नकर्शनो यो बिभर्तीमं मणिम्
नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः । सर्वा दिशो वि राजति यो बिभर्तीमं मणिम्
कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत्। अबिभस्त्वेन्द्रो मानुषे बिभ्रत्संश्रेषिणेऽजयत्। मणिं सहस्रवीर्यं वर्म देवा अकृण्वत
यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यज्ञैर्यस्त्वा जिघांसति । प्रत्यक्त्वमिन्द्र तं जहि वज्रेण शतपर्वणा
अयमिद्वै प्रतीवर्त ओजस्वान् संजयो मणिः । प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः
असपत्नं नो अधरादसपत्नं न उत्तरात्। इन्द्रासपत्नं नः पश्चाज्ज्योतिः शूर पुरस्कृधि
वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः । वर्म म इन्द्रश्चाग्निश्च वर्म धाता दधातु मे
ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सर्वे । तन् मे तन्वं त्रायतां सर्वतो बृहदायुष्मां जरदष्टिर्यथासानि
आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये । इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे
अस्मिन्न् इन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम् । दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर्यथासत्
यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ । दुर्णामा तत्र मा गृधदलिंश उत वत्सपः
पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् । आश्रेषं वव्रिवाससमृक्षग्रीवं प्रमीलिनम्
मा सं वृतो मोप सृप ऊरू माव सृपोऽन्तरा । कृणोम्यस्यै भेषजं बजं दुर्णामचातनम्
दुर्णामा च सुनामा चोभा सम्वृतमिच्छतः । अरायान् अप हन्मः सुनामा स्त्रैणमिच्छताम्
यः कृष्णः केश्यसुर स्तम्बज उत तुण्डिकः । अरायान् अस्या मुष्काभ्यां भंससोऽप हन्मसि
अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम् । अरायां छ्वकिष्किणो बजः पिङ्गो अनीनशत्
यस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च । बजस्तान्त्सहतामितः क्लीबरूपांस्तिरीटिनः
यस्त्वा स्वपन्तीं त्सरति यस्त्वा दिप्सति जाग्रतीम् । छायामिव प्र तान्त्सूर्यः परिक्रामन्न् अनीनशत्
यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम् । तमोषधे त्वं नाशयास्याः कमलमञ्जिवम्
ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः । कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः । तान् ओषधे त्वं गन्धेन विषूचीनान् वि नाशय
{१४} ये कुकुन्धाः कुकिरभाः कृत्तीर्दूर्शानि बिभ्रति । क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तान् इतो नाशयामसि
ये सूर्यं न तितिक्षन्त आतपन्तममुं दिवः । अरायान् बस्तवासिनो दुर्गन्धींल्लोहितास्यान् मककान् नाशयामसि
य आत्मानमतिमात्रमंस आधाय बिभ्रति । स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय
ये पूर्वे बध्वो यन्ति हस्ते शृङ्गानि बिभ्रतः । आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तान् इतो नाशयामसि
येषां पश्चात्प्रपदानि पुरः पार्ष्णीः पुरो मुखा । खलजाः शकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः । तान् अस्या ब्रह्मणस्पते प्रतीबोधेन नाशय
पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्डगाः । अव भेषज पादय य इमां संविवृत्सत्यपतिः स्वपतिं स्त्रियम्