मा नो रक्षो अभि नड्यातुमावदपोच्छन्तु मिथुना ये किमीदिनः । पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान्
इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् । विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम्
प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् । रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः
8.5 अयं प्रतिसरो मणिर्वीरो वीराय बध्यते । वीर्यवान्त्सपत्नहा शूरवीरः परिपाणः सुमङ्गलः
अयं मणिः सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः । प्रत्यक्कृत्या दूषयन्न् एति वीरः
अनेनेन्द्रो मणिना वृत्रमहन्न् अनेनासुरान् पराभावयन् मनीषी । अनेनाजयद्द्यावापृथिवी उभे इमे अनेनाजयत्प्रदिशश्चतस्रः
अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः । ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः
तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः । ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु
अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम् । ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु
ये स्राक्त्यं मणिं जना वर्माणि कृण्वते । सूर्य इव दिवमारुह्य वि कृत्या बाधते वशी
स्राक्त्येन मणिना ऋषिणेव मनीषिणा । अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः
याः कृत्या आङ्गिरसीर्याः कृत्या आसुरीर्याः । कृत्याः स्वयंकृता या उ चान्येभिराभृताः । उभयीस्ताः परा यन्तु परावतो नवतिं नाव्या अति
अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः । प्रजापतिः परमेष्ठी विराड्वैश्वानर ऋषयश्च सर्वे
{१२} उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव । यमैछामाविदाम तं प्रतिस्पाशनमन्तितम्
स इद्व्याघ्रो भवत्यथो सिंहो अथो वृषा । अथो सपत्नकर्शनो यो बिभर्तीमं मणिम्
नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः । सर्वा दिशो वि राजति यो बिभर्तीमं मणिम्
कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत्। अबिभस्त्वेन्द्रो मानुषे बिभ्रत्संश्रेषिणेऽजयत्। मणिं सहस्रवीर्यं वर्म देवा अकृण्वत
यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यज्ञैर्यस्त्वा जिघांसति । प्रत्यक्त्वमिन्द्र तं जहि वज्रेण शतपर्वणा
अयमिद्वै प्रतीवर्त ओजस्वान् संजयो मणिः । प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः
असपत्नं नो अधरादसपत्नं न उत्तरात्। इन्द्रासपत्नं नः पश्चाज्ज्योतिः शूर पुरस्कृधि
वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः । वर्म म इन्द्रश्चाग्निश्च वर्म धाता दधातु मे
ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सर्वे । तन् मे तन्वं त्रायतां सर्वतो बृहदायुष्मां जरदष्टिर्यथासानि
आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये । इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे
अस्मिन्न् इन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम् । दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर्यथासत्
यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ । दुर्णामा तत्र मा गृधदलिंश उत वत्सपः
पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् । आश्रेषं वव्रिवाससमृक्षग्रीवं प्रमीलिनम्
मा सं वृतो मोप सृप ऊरू माव सृपोऽन्तरा । कृणोम्यस्यै भेषजं बजं दुर्णामचातनम्
दुर्णामा च सुनामा चोभा सम्वृतमिच्छतः । अरायान् अप हन्मः सुनामा स्त्रैणमिच्छताम्
यः कृष्णः केश्यसुर स्तम्बज उत तुण्डिकः । अरायान् अस्या मुष्काभ्यां भंससोऽप हन्मसि
अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम् । अरायां छ्वकिष्किणो बजः पिङ्गो अनीनशत्