अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त्सर्वहायाः इहास्तु । भवाशर्वौ मृडतं शर्म यच्छतमपसिध्य दुरितं धत्तमायुः
अस्मै मृत्यो अधि ब्रूहीमं दयस्वोदितोऽयमेतु । अरिष्टः सर्वाङ्गः सुश्रुज्जरसा शतहायन आत्मना भुजमश्नुताम्
देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत्त्वा मृत्योरपीपरम् । आरादग्निं क्रव्यादं निरूहं जीवातवे ते परिधिं दधामि
यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम् । पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि
{३} कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति । वैवस्वतेन प्रहितान् यमदूतांश्चरतोऽप सेधामि सर्वान्
आरादरातिं निर्ऋतिं परो ग्राहिं क्रव्यादः पिशाचान् । रक्षो यत्सर्वं दुर्भूतं तत्तम इवाप हन्मसि
अग्नेष्ट प्रानममृतादायुष्मतो वन्वे जातवेदसः । यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम्
शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ । शं ते सूर्य आ तपतु शं वातो वातु ते हृदे । शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः
शिवास्ते सन्त्वोषधय उत्त्वाहार्षमधरस्या उत्तरां पृथिवीमभि । तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा
यत्ते वासः परिधानं यां नीविं कृणुषे त्वम् । शिवं ते तन्वे तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते
यत्क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मश्रु । शुभं मुखं मा न आयुः प्र मोषीः
शिवौ ते स्तां व्रीहियवावबलासावदोमधौ । एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः
यदश्नासि यत्पिबसि धान्यं कृष्याः पयः । यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि
अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि । अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत
{४} शतं तेऽयुतं हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः । इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः
शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि । वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः
मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम् । तस्मात्त्वां मृत्योर्गोपतेरुद्भरामि स मा बिभेः
सोऽरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः । न वै तत्र म्रियन्ते नो यन्ति अधमं तमः
सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः । यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम्
परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः । अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम्
ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः । मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि
अग्नेः शरीरमसि पारयिष्णु रक्षोहासि सपत्नहा । अथो अमीवचातनः पूतुद्रुर्नाम भेषजम्
8.3 रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म । शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम्
अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः । आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन्
उभोभयाविन्न् उप धेहि दंष्ट्रौ हिंस्रः शिशानोऽवरं परं च । उतान्तरिक्षे परि याह्यग्ने जम्भैः सं धेह्यभि यातुधानान्
अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् । प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोत्वेनम्
यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् । उतान्तरिक्षे पतन्तं यातुधानं तमस्ता विध्य शर्वा शिशानः
यज्ञैरिषूः संनममानो अग्ने वाचा शल्याँ अशनिभिर्दिहानः । ताभिर्विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्येषाम्
उतारब्धान्त्स्पृनुहि जातवेद उतारेभाणामृष्टिभिर्यातुधानान् । अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः
इह प्र ब्रूहि यतमः सो अग्ने यातुधानो य इदं कृणोति । तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम्