मा गतानामा दीधीथा ये नयन्ति परावतम् । आ रोह तमसो ज्योतिरेह्या ते हस्तौ रभामहे
श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ । अर्वाङेहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः
मैतं पन्थामनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि । तम एतत्पुरुष मा प्र पत्था भयं परस्तादभयं ते अर्वाक्
{१} रक्षन्तु त्वाग्नयो ये अप्स्वन्ता रक्षतु त्वा मनुष्या यमिन्धते । वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह
मा त्वा क्रव्यादभि मंस्तारात्संकसुकाच्चर रक्षतु त्वा द्यौ रक्षतु । पृथिवी सूर्यश्च त्वा रक्षतां चन्द्रमाश्च । अन्तरिक्षं रक्षतु देवहेत्याः
बोधश्च त्वा प्रतिबोधश्च रक्षतामस्वप्नश्च त्वानवद्राणश्च रक्षताम् । गोपायंश्च त्वा जागृविश्च रक्षताम्
ते त्वा रक्षन्तु ते त्वा गोपायन्तु तेभ्यो नमस्तेभ्यः स्वाहा
जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाणः । मा त्वा प्राणो बलं हासीदसुं तेऽनु ह्वयामसि
मा त्वा जम्भः संहनुर्मा तमो विदन् मा जिह्वा बर्हिस्प्रमयुः कथा स्याः । उत्त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये
उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत्। उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन्
अयं देवा इहैवास्त्वयं मामुत्र गादितः । इमं सहस्रवीर्येण मृत्योरुत्पारयामसि
उत्त्वा मृत्योरपीपरं सं धमन्तु वयोधसः । मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन्
आहार्षमविदं त्वा पुनरागाः पुनर्णवः । सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम्
व्यवात्ते ज्योतिरभूदप त्वत्तमो अक्रमीत्। अप त्वन् मृत्युं निर्ऋतिमप यक्ष्मं नि दध्मसि
आ रभस्वेमाममृतस्य श्नुष्टिमछिद्यमाना जरदष्टिरस्तु ते । असुं त आयुः पुनरा भरामि रजस्तमो मोप गा मा प्र मेष्ठाः
जीवतां ज्योतिरभ्येह्यर्वाङा त्वा हरामि शतशारदाय । अवमुञ्चन् मृत्युपाशान् अशस्तिं द्राघीय आयुः प्रतरं ते दधामि
वातात्ते प्रानमविदं सूर्याच्चक्षुरहं तव । यत्ते मनस्त्वयि तद्धारयामि सं वित्स्वाङ्गैर्वद जिह्वयालपन्
प्राणेन त्वा द्विपदां चतुष्पदामग्निमिव जातमभि सं धमामि । नमस्ते मृत्यो चक्षुषे नमः प्राणाय तेऽकरम्
अयं जीवतु मा मृतेमं समीरयामसि । कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः
जीवलां नघारिषां जीवन्तीमोषधीमहम् । त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये
अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त्सर्वहायाः इहास्तु । भवाशर्वौ मृडतं शर्म यच्छतमपसिध्य दुरितं धत्तमायुः
अस्मै मृत्यो अधि ब्रूहीमं दयस्वोदितोऽयमेतु । अरिष्टः सर्वाङ्गः सुश्रुज्जरसा शतहायन आत्मना भुजमश्नुताम्
देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत्त्वा मृत्योरपीपरम् । आरादग्निं क्रव्यादं निरूहं जीवातवे ते परिधिं दधामि
यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम् । पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि
{३} कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति । वैवस्वतेन प्रहितान् यमदूतांश्चरतोऽप सेधामि सर्वान्
आरादरातिं निर्ऋतिं परो ग्राहिं क्रव्यादः पिशाचान् । रक्षो यत्सर्वं दुर्भूतं तत्तम इवाप हन्मसि
अग्नेष्ट प्रानममृतादायुष्मतो वन्वे जातवेदसः । यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम्
शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ । शं ते सूर्य आ तपतु शं वातो वातु ते हृदे । शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः
शिवास्ते सन्त्वोषधय उत्त्वाहार्षमधरस्या उत्तरां पृथिवीमभि । तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा
यत्ते वासः परिधानं यां नीविं कृणुषे त्वम् । शिवं ते तन्वे तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते