मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत । अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्
तृष्टिके तृष्टवन्दन उदमूं छिन्धि तृष्टिके । यथा कृतद्विष्टासोऽमुष्मै शेप्यावते
तृष्टासि तृष्टिका विषा विषातक्यसि । परिवृक्ता यथासस्यृषभस्य वशेव
7.119(7.114) आ ते ददे वक्षणाभ्य आ तेऽहं हृदयाद्ददे । आ ते मुखस्य सङ्काशात्सर्वं ते वर्च आ ददे
प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः । अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः
प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत । अयस्मयेनाङ्केन द्विषते त्वा सजामसि
या मा लक्ष्मीः पतयालूरजुष्टाभिचस्कन्द वन्दनेव वृक्षम् । अन्यत्रास्मत्सवितस्तामितो धा हिरण्यहस्तो वसु नो रराणः
एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषोऽधि जाताः । तासां पापिष्ठा निरितः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नियच्छ
एता एना व्याकरं खिले गा विष्ठिता इव । रमन्तां पुण्या लक्ष्मीर्याः पापीस्ता अनीनशम्
नमो रूराय च्यवनाय नोदनाय धृष्णवे । नमः शीताय पूर्वकामकृत्वने
यो अन्येद्युरुभयद्युरभ्येतीमं मण्डूकम् । अभ्येत्वव्रतः
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । मा त्वा के चिद्वि यमन् विं न पाशिनोऽति धन्वेव तामिहि
मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् । उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु
अन्तकाय मृत्यवे नमः प्राणा अपाना इह ते रमन्ताम् । इहायमस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके
उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान् । उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये
इह तेऽसुरिह प्राण इहायुरिह ते मनः । उत्त्वा निर्ऋत्याः पाशेभ्यो दैव्या वचा भरामसि
उत्क्रामातः पुरुष माव पत्था मृत्योः पड्वीषमवमुञ्चमानः । मा छित्था अस्माल्लोकादग्नेः सूर्यस्य संदृशः
तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः । सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः
उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृणोमि । आ हि रोहेमममृतं सुखं रथमथ जिर्विर्विदथमा वदासि
मा ते मनस्तत्र गान् मा तिरो भून् मा जीवेभ्यः प्र मदो मानु गाः पितॄन् । विश्वे देवा अभि रक्षन्तु त्वेह
मा गतानामा दीधीथा ये नयन्ति परावतम् । आ रोह तमसो ज्योतिरेह्या ते हस्तौ रभामहे
श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ । अर्वाङेहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः
मैतं पन्थामनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि । तम एतत्पुरुष मा प्र पत्था भयं परस्तादभयं ते अर्वाक्
{१} रक्षन्तु त्वाग्नयो ये अप्स्वन्ता रक्षतु त्वा मनुष्या यमिन्धते । वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह
मा त्वा क्रव्यादभि मंस्तारात्संकसुकाच्चर रक्षतु त्वा द्यौ रक्षतु । पृथिवी सूर्यश्च त्वा रक्षतां चन्द्रमाश्च । अन्तरिक्षं रक्षतु देवहेत्याः
बोधश्च त्वा प्रतिबोधश्च रक्षतामस्वप्नश्च त्वानवद्राणश्च रक्षताम् । गोपायंश्च त्वा जागृविश्च रक्षताम्
ते त्वा रक्षन्तु ते त्वा गोपायन्तु तेभ्यो नमस्तेभ्यः स्वाहा
जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाणः । मा त्वा प्राणो बलं हासीदसुं तेऽनु ह्वयामसि
मा त्वा जम्भः संहनुर्मा तमो विदन् मा जिह्वा बर्हिस्प्रमयुः कथा स्याः । उत्त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये
उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत्। उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन्