नमस्कृत्य द्यावापृथिवीभ्यामन्तरिक्षाय मृत्यवे । मेक्षाम्यूर्ध्वस्तिष्ठन् मा मा हिंसिषुरीश्वराः
को अस्या नो द्रुहोऽवद्यवत्या उन् नेष्यति क्षत्रियो वस्य इच्छन् । को यज्ञकामः क उ पूर्तिकामः को देवेषु वनुते दीर्घमायुः
कः पृश्निं धेनुं वरुणेन दत्तामथर्वणे सुदुघां नित्यवत्साम् । बृहस्पतिना सख्यं जुषाणो यथावशं तन्वः कल्पयाति
अपक्रामन् पौरुषेयाद्वृणानो दैव्यं वचः । प्रणीतीरभ्यावर्तस्व विश्वेभिः सखिभिः सह
यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः । ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्तु नः
अव दिवस्तारयन्ति सप्त सूर्यस्य रश्मयः । आपः समुद्रिया धारास्तास्ते शल्यमसिस्रसन्
यो न स्तायद्दिप्सति यो न आविः स्वो विद्वान् अरणो वा नो अग्ने । प्रतीच्येत्वरणी दत्वती तान् मैषामग्ने वास्तु भून् मो अपत्यम्
यो नः सुप्तान् जाग्रतो वाभिदासात्तिष्ठतो वा चरतो जातवेदः । वैश्वानरेण सयुजा सजोषास्तान् प्रतीचो निर्दह जातवेदः
इदमुग्राय बभ्रवे नमो यो अक्षेषु तनूवशी । घृतेन कलिं शिक्षामि स नो मृडातीदृशे
घृतमप्सराभ्यो वह त्वमग्ने पांसून् अक्षेभ्यः सिकता अपश्च । यथाभागं हव्यदातिं जुषाणा मदन्ति देवा उभयानि हव्या
अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च । ता मे हस्तौ सं सृजन्तु घृतेन सपत्नं मे कितवं रन्धयन्तु
आदिनवं प्रतिदीव्ने घृतेनास्मामभि क्षर । वृक्षमिवाशन्या जहि यो अस्मान् प्रतिदीव्यति
यो नो द्युवे धनमिदं चकार यो अक्षाणां ग्लहनं शेषणं च । स नो देवो हविरिदं जुषाणो गन्धर्वेभिः सधमादं मदेम
संवसव इति वो नामधेयमुग्रंपश्या राष्ट्रभृतो ह्यक्षाः । तेभ्यो व इन्दवो हविषा विधेम वयं स्याम पतयो रयीणाम्
देवान् यन् नाथितो हुवे ब्रह्मचर्यं यदूषिम । अक्षान् यद्बभ्रून् आलभे ते नो मृडन्त्वीदृशे
अग्न इन्द्रश्च दाशुषे हतो वृत्राण्यप्रति । उभा हि वृत्रहन्तमा
याभ्यामजयन्त्स्वरग्र एव यावातस्थतुर्भुवनानि विश्वा । प्र चर्षणीवृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेऽहम्
उप त्वा देवो अग्रभीच्चमसेन बृहस्पतिः । इन्द्र गीर्भिर्न आ विश यजमानाय सुन्वते
इन्द्रस्य कुक्षिरसि सोमधान आत्मा देवानामुत मानुषाणाम् । इह प्रजा जनय यास्त आसु या अन्यत्रेह तास्ते रमन्ताम्
शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते । आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत । अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्
तृष्टिके तृष्टवन्दन उदमूं छिन्धि तृष्टिके । यथा कृतद्विष्टासोऽमुष्मै शेप्यावते
तृष्टासि तृष्टिका विषा विषातक्यसि । परिवृक्ता यथासस्यृषभस्य वशेव
7.119(7.114) आ ते ददे वक्षणाभ्य आ तेऽहं हृदयाद्ददे । आ ते मुखस्य सङ्काशात्सर्वं ते वर्च आ ददे
प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः । अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः
प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत । अयस्मयेनाङ्केन द्विषते त्वा सजामसि
या मा लक्ष्मीः पतयालूरजुष्टाभिचस्कन्द वन्दनेव वृक्षम् । अन्यत्रास्मत्सवितस्तामितो धा हिरण्यहस्तो वसु नो रराणः
एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषोऽधि जाताः । तासां पापिष्ठा निरितः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नियच्छ
एता एना व्याकरं खिले गा विष्ठिता इव । रमन्तां पुण्या लक्ष्मीर्याः पापीस्ता अनीनशम्
नमो रूराय च्यवनाय नोदनाय धृष्णवे । नमः शीताय पूर्वकामकृत्वने