त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् । हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति न इन्द्रो मघवान् कृणोतु
यो अग्नौ रुद्रो यो अप्स्वन्तर्य ओषधीर्वीरुध आविवेश । य इमा विश्वा भुवनानि चाकॢपे तस्मै रुद्राय नमो अस्त्वग्नये
अपेह्यरिरस्यरिर्वा असि विषे विषमपृक्था विषमिद्वा अपृक्थाः । अहिमेवाभ्यपेहि तं जहि
अपो दिव्या अचायिषं रसेन समपृक्ष्महि । पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा
सं माग्ने वर्चसा सृज सं प्रजया समायुषा । विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः
इदमापः प्र वहतावद्यं च मलं च यत्। यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम्
एधोऽस्येधिषीय समिदसि समेधिषीय । तेजोऽसि तेजो मयि धेहि
अपि वृश्च पुराणवद्व्रततेरिव गुष्पितम् । ओजो दासस्य दम्भय
वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजामहै । म्लापयामि भ्रजः शिभ्रं वरुणस्य व्रतेन ते
यथा शेपो अपायातै स्त्रीषु चासदनावयाः । अवस्थस्य क्नदीवतः शाङ्कुरस्य नितोदिनः । यदाततमव तत्तनु यदुत्ततं नि तत्तनु
इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः । बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम
स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु । तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम
इन्द्रेण मन्युना वयमभि ष्याम पृतन्यतः । घ्नन्तो वृत्राण्यप्रति
ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा न इन्द्रः केवलीर्विशः संमनसस्करत्
उदस्य श्यावौ विथुरौ गृध्रौ द्यामिव पेततुः । उच्छोचनप्रशोचनावस्योच्छोचनौ हृदः
अहमेनावुदतिष्ठिपं गावौ श्रान्तसदाविव । कुर्कुराविव कूजन्तावुदवन्तौ वृकाविव
आतोदिनौ नितोदिनावथो संतोदिनावुत । अपि नह्याम्यस्य मेढ्रं य इतः स्त्री पुमान् जभार
असदन् गावः सदनेऽपप्तद्वसतिं वयः । आस्थाने पर्वता अस्थुः स्थाम्नि वृक्कावतिष्ठिपम्
यदद्य त्वा प्रयति यज्ञे अस्मिन् होतश्चिकित्वन्न् अवृणीमहीह । ध्रुवमयो ध्रुवमुता शविष्ठैप्रविद्वान् यज्ञमुप याहि सोमम्
समिन्द्र नो मनसा नेष गोभिः सं सूरिभिर्हरिवन्त्सं स्वस्त्या । सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमतौ यज्ञियानाम्
यान् आवह उशतो देव देवांस्तान् प्रेरय स्वे अग्ने सधस्थे । जक्षिवांसः पपिवांसो मधून्यस्मै धत्त वसवो वसूनि
सुगा वो देवाः सदना अकर्म य आजग्म सवने मा जुषाणाः । वहमाना भरमाणाः स्वा वसूनि वसुं घर्मं दिवमा रोहतानु
यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ । स्वां योनिं गच्छ स्वाहा
एष ते यज्ञो यज्ञपते सहसूक्तवाकः । सुवीर्यः स्वाहा
वषड्धुतेभ्यो वषडहुतेभ्यः । देवा गातुविदो गातुं वित्त्वा गातुमित
मनसस्पत इमं नो दिवि देवेषु यज्ञम् । स्वाहा दिवि स्वाहा पृथिव्यां स्वाहान्तरिक्षे स्वाहा वाते धां स्वाहा
सं बर्हिरक्तं हविषा घृतेन समिन्द्रेण वसुना सं मरुद्भिः । सं देवैर्विश्वदेवेभिरक्तमिन्द्रं गच्छतु हविः स्वाहा
परि स्तृणीहि परि धेहि वेदिं मा जामिं मोषीरमुया शयानाम् । होतृषदनं हरितं हिरण्ययं निष्का एते यजमानस्य लोके
पर्यावर्ते दुष्वप्न्यात्पापात्स्वप्न्यादभूत्याः । ब्रह्माहमन्तरं कृण्वे परा स्वप्नमुखाः शुचः
यत्स्वप्ने अन्नमश्नामि न प्रातरधिगम्यते । सर्वं तदस्तु मे शिवं नहि तद् दृश्यते दिवा