इहैव स्त मानु गात विश्वा रूपाणि पुष्यत । ऐष्यामि भद्रेणा सह भूयांसो भवता मया
यदग्ने तपसा तप उपतप्यामहे तपः । प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधसः
अग्ने तपस्तप्यामह उप तप्यामहे तपः । श्रुतानि शृण्वन्तः वयमायुष्मन्तः सुमेधसः
अयमग्निः सत्पतिर्वृद्धवृष्णो रथीव पत्तीन् अजयत्पुरोहितः । नाभा पृथिव्यां निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यवः
पृतनाजितं सहमानमग्निमुक्थ्यैर्हवामहे परमात्सधस्थात्। स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवोऽति दुरितान्यग्निः
इदं यत्कृष्णः शकुनिरभिनिष्पतन्न् अपीपतत्। आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः
इदं यत्कृष्णः शकुनिरवामृक्षन् निर्ऋते ते मुखेन । अग्निर्मा तस्मादेनसो गार्हपत्यः प्र मुञ्चतु
प्रतीचीनफलो हि त्वमपामार्ग रुरोहिथ । सर्वान् मच्छपथामधि वरीयो यवया इतः
यद्दुष्कृतं यच्छमलं यद्वा चेरिम पापया । त्वया तद्विश्वतोमुखापामार्गाप मृज्महे
श्यावदता कुनखिना बण्डेन यत्सहासिम । अपामार्ग त्वया वयं सर्वं तदप मृज्महे
यद्यन्तरिक्षे यदि वात आस यदि वृक्षेषु यदि वोलपेषु । यदश्रवन् पशव उद्यमानं तद्ब्राह्मणं पुनरस्मान् उपैतु
पुनर्मैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च । पुनरग्नयो धिष्ण्या यथास्थाम कल्पयन्तामिहैव
सरस्वति व्रतेषु ते दिव्येषु देवि धामसु । जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः
इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्। इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम
शं नो वातो वातु शं नस्तपतु सूर्यः । अहानि शं भवन्तु नः शं रात्री प्रति धीयताम् । शमुषा नो व्युच्छतु
यत्किं चासौ मनसा यच्च वाचा यज्ञैर्जुहोति हविषा यजुषा । तन् मृत्युना निर्ऋतिः संविदाना पुरा सत्यादाहुतिं हन्त्वस्य
यातुधाना निर्ऋतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम् । इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति
अजिराधिराजौ श्येनौ संपातिनाविव । आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति
अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम् । अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः
अपि नह्यामि ते बाहू अपि नह्याम्यास्यम् । अग्नेर्घोरस्य मन्युना तेनऽवधिषं हविः
परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि । धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः
उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् । यदि श्रातं जुहोतन यद्यश्रातं ममत्तन
श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो वि मध्यम् । परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम्
श्रातं मन्य ऊधनि श्रातमग्नौ सुशृतं मन्ये तदृतं नवीयः । माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज्जुषाणः
समिद्धो अग्निर्वृषणा रथी दिवस्तप्तो घर्मो दुह्यते वामिषे मधु । वयं हि वां पुरुदमासो अश्विना हवामहे सधमादेषु कारवः
समिद्धो अग्निरश्विना तप्तो वां घर्म आ गतम् । दुह्यन्ते नूनं वृषणेह धेनवो दस्रा मदन्ति वेधसः
स्वाहाकृतः शुचिर्देवेषु यज्ञो यो अश्विनोश्चमसो देवपानः । तमु विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति
यदुस्रियास्वाहुतं घृतं पयोऽयं स वामश्विना भाग आ गतम् । माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं दिवः
तप्तो वां घर्मो नक्षतु स्वहोता प्र वामध्वर्युश्चरतु पयस्वान् । मधोर्दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः
उप द्रव पयसा गोधुगोषमा घर्मे सिञ्च पय उस्रियायाः । वि नाकमख्यत्सविता वरेण्योऽनुप्रयाणमुषसो वि राजति