संज्ञानं नः स्वेभिः संज्ञानमरणेभिः । संज्ञानमश्विना युवमिहास्मासु नि यच्छतम्
सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन । मा घोषा उत्स्थुर्बहुले विनिर्हते मेषुः पप्तदिन्द्रस्याहन्यागते
अमुत्रभूयादधि यद्यमस्य बृहस्पते अभिशस्तेरमुञ्चः । प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा शचीभिः
सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाविह स्ताम् । शतं जीव शरदो वर्धमानोऽग्निष्टे गोपा अधिपा वसिष्ठः
आयुर्यत्ते अतिहितं पराचैरपानः प्राणः पुनरा ताविताम् । अग्निष्टदाहार्निर्ऋतेरुपस्थात्तदात्मनि पुनरा वेशयामि ते
मेमं प्राणो हासीन् मो अपानोऽवहाय परा गात्। सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु
प्र विषतं प्राणापानावनड्वाहाविव व्रजम् । अयं जरिम्णः शेवधिररिष्ट इह वर्धताम्
आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते । आयुर्नो विश्वतो दधदयमग्निर्वरेण्यः
उद्वयं तमसस्परि रोहन्तो नाकमुत्तमम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्
ऋचं साम यजामहे याभ्यां कर्माणि कुर्वते । एते सदसि राजतो यज्ञं देवेषु यच्छतः
ये ते पन्थानोऽव दिवो येभिर्विश्वमैरयः । तेभिः सुम्नया धेहि नो वसो
तिरश्चिराजेरसितात्पृदाकोः परि संभृतम् । तत्कङ्कपर्वणो विषमियं वीरुदनीनशत्
इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधूः । सा विह्रुतस्य भेषज्यथो मशकजम्भनी
यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि । अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम्
अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि । तानि त्वं ब्रह्मणस्पते इषीकामिव सं नमः
अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः । विषं ह्यस्यादिष्यथो एनमजीजभम्
न ते बाह्वोर्बलमस्ति न शीर्षे नोत मध्यतः । अथ किं पापयाऽमुया पुच्छे बिभर्ष्यर्भकम्
अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः । सर्वे भल ब्रवाथ शार्कोटमरसं विषम्
य उभाभ्यां प्रहरसि पुच्छेन चास्येन च । आस्ये न ते विषं किमु ते पुच्छधावसत्
यदाशसा वदतो मे विचुक्षुभे यद्याचमानस्य चरतो जनामनु । यदात्मनि तन्वो मे विरिष्टं सरस्वती तदा पृणद्घृतेन
सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवृतन्न् ऋतानि । उभे इदस्योभे अस्य राजत उभे यतेते उभे अस्य पुष्यतः
इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रतौ । युवो रथो अध्वरो देववीतये प्रति स्वसरमुप यातु पीतये
इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् । इदं वामन्धः परिषिक्तमासद्यास्मिन् बर्हिषि मादयेथाम्
यो नः शपादशपतः शपतो यश्च नः शपात्। वृक्ष इव विद्युता हत आ मूलादनु शुष्यतु
ऊर्जं बिभ्रद्वसुवनिः सुमेधा अघोरेण चक्षुषा मित्रियेण । गृहान् ऐमि सुमना वन्दमानो रमध्वं मा बिभीत मत्
इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः । पूर्णा वामेन तिष्ठन्तस्ते नो जानन्त्वायतः
येषामध्येति प्रवसन् येषु सौमनसो बहुः । गृहान् उप ह्वयामहे ते नो जानन्त्वायतः
उपहूता भूरिधनाः सखायः स्वादुसंमुदः । अक्षुध्या अतृष्या स्त गृहा मास्मद्बिभीतन
उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु
सूनृतावन्तः सुभगा इरावन्तो हसामुदाः । अतृष्या अक्षुध्या स्त गृहा मास्मद्बिभीतन