7.50(7.52) यथा वृक्षमशनिर्विश्वाहा हन्त्यप्रति । एवाहमद्य कितवान् अक्षैर्बध्यासमप्रति
तुराणामतुराणां विशामवर्जुषीणाम् । समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम
ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि चयत्कृतं नः । रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोममृध्याम्
वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे । अस्मभ्यमिन्द्र वरीयः सुगं कृधि प्र शत्रूणां मघवन् वृष्ण्या रुज
अजैषं त्वा संलिखितमजैषमुत संरुधम् । अविं वृको यथा मथदेवा मथ्नामि ते कृतम्
उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले । यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः
गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे । वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम
कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः । गोजिद्भूयासमश्वजिद्धनंजयो हिरण्यजित्
अक्षाः फलवतीं द्युवं दत्त गां क्षीरिणीमिव । सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः । इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु
संज्ञानं नः स्वेभिः संज्ञानमरणेभिः । संज्ञानमश्विना युवमिहास्मासु नि यच्छतम्
सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन । मा घोषा उत्स्थुर्बहुले विनिर्हते मेषुः पप्तदिन्द्रस्याहन्यागते
अमुत्रभूयादधि यद्यमस्य बृहस्पते अभिशस्तेरमुञ्चः । प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा शचीभिः
सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाविह स्ताम् । शतं जीव शरदो वर्धमानोऽग्निष्टे गोपा अधिपा वसिष्ठः
आयुर्यत्ते अतिहितं पराचैरपानः प्राणः पुनरा ताविताम् । अग्निष्टदाहार्निर्ऋतेरुपस्थात्तदात्मनि पुनरा वेशयामि ते
मेमं प्राणो हासीन् मो अपानोऽवहाय परा गात्। सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु
प्र विषतं प्राणापानावनड्वाहाविव व्रजम् । अयं जरिम्णः शेवधिररिष्ट इह वर्धताम्
आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते । आयुर्नो विश्वतो दधदयमग्निर्वरेण्यः
उद्वयं तमसस्परि रोहन्तो नाकमुत्तमम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्
ऋचं साम यजामहे याभ्यां कर्माणि कुर्वते । एते सदसि राजतो यज्ञं देवेषु यच्छतः
ये ते पन्थानोऽव दिवो येभिर्विश्वमैरयः । तेभिः सुम्नया धेहि नो वसो
तिरश्चिराजेरसितात्पृदाकोः परि संभृतम् । तत्कङ्कपर्वणो विषमियं वीरुदनीनशत्
इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधूः । सा विह्रुतस्य भेषज्यथो मशकजम्भनी
यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि । अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम्
अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि । तानि त्वं ब्रह्मणस्पते इषीकामिव सं नमः
अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः । विषं ह्यस्यादिष्यथो एनमजीजभम्
न ते बाह्वोर्बलमस्ति न शीर्षे नोत मध्यतः । अथ किं पापयाऽमुया पुच्छे बिभर्ष्यर्भकम्
अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः । सर्वे भल ब्रवाथ शार्कोटमरसं विषम्
य उभाभ्यां प्रहरसि पुच्छेन चास्येन च । आस्ये न ते विषं किमु ते पुच्छधावसत्
यदाशसा वदतो मे विचुक्षुभे यद्याचमानस्य चरतो जनामनु । यदात्मनि तन्वो मे विरिष्टं सरस्वती तदा पृणद्घृतेन