अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः
वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत्सुतस्य । आ सायकं मघवादत्त वज्रमहन्न् एनं प्रथमजामहीनाम्
समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या । सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्रः
सं चेध्यस्वाग्ने प्र च वर्धयेममुच्च तिष्ठ महते सौभगाय । मा ते रिषन्न् उपसत्तारो अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये
त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः । सपत्नहाग्ने अभिमातिजिद्भव स्वे गये जागृह्यप्रयुच्छन्
क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व । सजातानां मध्यमेष्ठा राज्ञामग्ने विहव्यो दीदिहीह
अति निहो अति सृधोऽत्यचित्तीरति द्विषः । विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः
अघद्विष्टा देवजाता वीरुच्छपथयोपनी । आपो मलमिव प्राणैक्षीत्सर्वान् मच्छपथामधि
यश्च सापत्नः शपथो जाम्याः शपथश्च यः । ब्रह्मा यन् मन्युतः शपात्सर्वं तन् नो अधस्पदम्
दिवो मूलमवततं पृथिव्या अध्युत्ततम् । तेन सहस्रकाण्डेन परि णः पाहि विश्वतः
परि मां परि मे प्रजां परि णः पाहि यद्धनम् । अरातिर्नो मा तारीन् मा नस्तारिशुरभिमातयः
शप्तारमेतु शपथो यः सुहार्त्तेन नः सह । चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणीमसि
उदगातां भगवती विचृतौ नाम तारके । वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम्
अपेयं रात्र्युच्छत्वपोच्छन्त्वभिकृत्वरीः । वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु
बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या । वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु
नमस्ते लाङ्गलेभ्यो नम ईषायुगेभ्यः । वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु
नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः । नमः क्षेत्रस्य पतये वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु
दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु । अथो एनं वनस्पते जीवानां लोकमुन् नय
आगादुदगादयं जीवानां व्रातमप्यगात्। अभूदु पुत्राणां पिता नृणां च भगवत्तमः
अधीतीरध्यगादयमधि जीवपुरा अगान् । शतं ह्यस्य भिषजः सहस्रमुत वीरुधः
देवास्ते चीतिमविदन् ब्रह्माण उत वीरुधः । चीतिं ते विश्वे देवा अविदन् भूम्यामधि
यश्चकार स निष्करत्स एव सुभिषक्तमः । स एव तुभ्यं भेषजानि कृणवद्भिषजा शुचिः
क्षेत्रियात्त्वा निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम्
शं ते अग्निः सहाद्भिरस्तु शं सोमः सहौषधीभिः । एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम्
शं ते वातो अन्तरिक्षे वयो धाच्छं ते भवन्तु प्रदिशश्चतस्रः । एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम्
इमा या देवीः प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे । एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम्
तासु त्वान्तर्जरस्या दधामि प्र यक्ष्म एतु निर्ऋतिः पराचैः । एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम्
अमुक्था यक्ष्माद्दुरितादवद्याद्द्रुहः पाशाद्ग्राह्याश्चोदमुक्थाः । एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम्
अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके । एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम्
सूर्यमृतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन् निरेनसः । एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम्