न घ्रंस्तताप न हिमो जघान प्र नभतां पृथिवी जीरदानुः । आपश्चिदस्मै घृतमित्क्षरन्ति यत्र सोमः सदमित्तत्र भद्रम्
7.20(7.19) प्रजापतिर्जनयति प्रजा इमा धाता दधातु सुमनस्यमानः । संजानानाः संमनसः सयोनयो मयि पुष्टं पुष्टपतिर्दधातु
7.21(7.20) अन्वद्य नोऽनुमतिर्यज्ञं देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतां दाशुषे मम
अन्विदनुमते त्वं मंससे शं च नस्कृधि । जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः
अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम् । तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम
यत्ते नाम सुहवं सुप्रणीतेऽनुमते अनुमतं सुदानु । तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम्
एमं यज्ञमनुमतिर्जगाम सुक्षेत्रतायै सुवीरतायै सुजातम् । भद्रा ह्यस्याः प्रमतिर्बभूव सेमं यज्ञमवतु देवगोपा
अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति । तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः
समेत विश्वे वचसा पतिं दिव एको विभूरतिथिर्जनानाम् । स पूर्व्यो नूतनमाविवासत्तं वर्तनिरनु वावृत एकमित्पुरु
अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि
ब्रध्नः समीचीरुषसः समैरयन् । अरेपसः सचेतसः स्वसरे मन्युमत्तमाश्चिते गोः
दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः । दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि
यन् न इन्द्रो अखनद्यदग्निर्विश्वे देवा मरुतो यत्स्वर्काः । तदस्मभ्यं सविता सत्यधर्मा प्रजापतिरनुमतिर्नि यच्छात्
ययोरोजसा स्कभिता रजांसि यौ वीर्यैर्वीरतमा शविष्ठा । यौ पत्येते अप्रतीतौ सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः
यस्येदं प्रदिशि यद्विरोचते प्र चानति वि च चष्टे शचीभिः । पुरा देवस्य धर्मणा सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः
विष्णोर्नु कं प्रा वोचं वीर्याणि यः पार्थिवानि विममे रजांसि । यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः
प्र तद्विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः । परावत आ जगम्यात्परस्याः
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा । उरु विष्णो वि क्रमस्वोरु क्षयाय नस्कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदा । समूढमस्य पंसुरे
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । इतो धर्माणि धारयन्
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्
दिवो विष्ण उत वा पृथिव्या महो विष्ण उरोरन्तरिक्षात्। हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयच्छ दक्षिणादोत सव्यात्
वेदः स्वस्तिर्द्रुघणः स्वस्तिः परशुर्वेदिः परशुर्नः स्वस्ति । हविष्कृतो यज्ञिया यज्ञकामास्ते देवासो यज्ञमिमं जुषन्ताम्
अग्नाविष्णू महि तद्वां महित्वं पाथो घृतस्य गुह्यस्य नाम । दमेदमे सप्त रत्ना दधानौ प्रति वां जिह्वा घृतमा चरण्यात्
अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणौ । दमेदमे सुष्टुत्या वावृधानौ प्रति वां जिह्वा घृतमुच्चरण्यात्
स्वाक्तं मे द्यावापृथिवी स्वाक्तं मित्रो अकरयम् । स्वाक्तं मे ब्रह्मणस्पतिः स्वाक्तं सविता करत्
इन्द्रोतिभिर्बहुलाभिर्नो अद्य यावच्छ्रेष्ठाभिर्मघवन् छूर जिन्व । यो नो द्वेष्ट्यधर सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु
उप प्रियं पनिप्नतं युवानमाहुतीवृधम् । अगन्म बिभ्रतो नमो दीर्घमायुः कृणोतु मे
सं मा सिञ्चन्तु मरुतः सं पूषा सं बृहस्पतिः । सं मायमग्निः सिञ्चतु प्रजया च धनेन च दीर्घमायुः कृणोतु मे