परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् । पुनर्नो नष्टमाजतु सं नष्टेन गमेमहि
यस्ते स्तनः शशयुर्यो मयोभूर्यः सुम्नयुः सुहवो यः सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे कः
यस्ते पृथु स्तनयित्नुर्य ऋष्वो दैवः केतुर्विश्वमाभूषतीदम् । मा नो वधीर्विद्युता देव सस्यं मोत वधी रश्मिभिः सूर्यस्य
सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने । येना संगछा उप मा स शिक्षाच्चारु वदानि पितरः संगतेषु
विद्म ते सभे नाम नरिष्टा नाम वा असि । ये ते के च सभासदस्ते मे सन्तु सवाचसः
एषामहं समासीनानां वर्चो विज्ञानमा ददे । अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु
यद्वो मनः परागतं यद्बद्धमिह वेह वा । तद्व आ वर्तयामसि मयि वो रमतां मनः
7.14(7.13) यथा सूर्यो नक्षत्राणामुद्यंस्तेजांस्याददे । एवा स्त्रीणां च पुंसां च द्विषतां वर्च आ ददे
यावन्तो मा सपत्नानामायन्तं प्रतिपश्यथ । उद्यन्त्सूर्य इव सुप्तानां द्विषतां वर्च आ ददे
7.1५(7.1४) अभि त्यं देवं सवितारमोण्योः कविक्रतुम् । अर्चामि सत्यसवं रत्नधामभि प्रियं मतिम्
उर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि । हिरण्यपाणिरमिमीत सुक्रतुः कृपात्स्वः
सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै । अथास्मभ्यं सवितर्वार्याणि दिवोदिव आ सुवा भूरि पश्वः
दमूना देवः सविता वरेण्यो दधद्रत्नं पितृभ्य आयूंषि । पिबात्सोमं ममददेनमिष्टे परिज्मा चित्क्रमते अस्य धर्मणि
7.16(7.15) तां सवितः सत्यसवां सुचित्रामाहं वृणे सुमतिं विश्ववाराम् । यामस्य कण्वो अदुहत्प्रपीनां सहस्रधारां महिषो भगाय
7.17(7.16) बृहस्पते सवितर्वर्धयैनं ज्योतयैनं महते सौभगाय । संशितं चित्संतरं सं शिशाधि विश्व एनमनु मदन्तु देवाः
7.18(7.17) धाता दधातु नो रयिमीशानो जगतस्पतिः । स नः पूर्णेन यच्छतु
धाता दधातु दाशुषे प्राचीं जीवातुमक्षिताम् । वयं देवस्य धीमहि सुमतिं विश्वराधसः
धाता विश्वा वार्या दधातु प्रजाकामाय दाशुषे दुरोणे । तस्मै देवा अमृतं सं व्ययन्तु विश्वे देवा अदितिः सजोषाः
धाता रातिः सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः । त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधातु
7.19(7.18) प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो धातरीशानो वि ष्या दृतिम्
न घ्रंस्तताप न हिमो जघान प्र नभतां पृथिवी जीरदानुः । आपश्चिदस्मै घृतमित्क्षरन्ति यत्र सोमः सदमित्तत्र भद्रम्
7.20(7.19) प्रजापतिर्जनयति प्रजा इमा धाता दधातु सुमनस्यमानः । संजानानाः संमनसः सयोनयो मयि पुष्टं पुष्टपतिर्दधातु
7.21(7.20) अन्वद्य नोऽनुमतिर्यज्ञं देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतां दाशुषे मम
अन्विदनुमते त्वं मंससे शं च नस्कृधि । जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः
अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम् । तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम
यत्ते नाम सुहवं सुप्रणीतेऽनुमते अनुमतं सुदानु । तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम्
एमं यज्ञमनुमतिर्जगाम सुक्षेत्रतायै सुवीरतायै सुजातम् । भद्रा ह्यस्याः प्रमतिर्बभूव सेमं यज्ञमवतु देवगोपा
अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति । तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः
समेत विश्वे वचसा पतिं दिव एको विभूरतिथिर्जनानाम् । स पूर्व्यो नूतनमाविवासत्तं वर्तनिरनु वावृत एकमित्पुरु
अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि