मुग्धा देवा उत शुनाऽयजन्तोत गोरङ्गैः पुरुधाऽयजन्त । य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिर्पञ्च जना अदितिर्जातमदितिर्जनित्वम्
महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हवामहे । तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम्
सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् । दैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये
वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे । यस्या उपस्थ उर्वन्तरिक्षं सा नः शर्म त्रिवरूथं नि यच्छात्
दितेः पुत्राणामदितेरकारिषमव देवानां बृहतामनर्मणाम् । तेषां हि धाम गभिषक्समुद्रियं नैनान् नमसा परो अस्ति कश्चन
7.9(7.8) भद्रादधि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु । अथेममस्या वर आ पृथिव्या आरेशत्रुं कृणुहि सर्ववीरम्
प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः । उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन्
पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत्। स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन् पुर एतु प्रजानन्
पूषन् तव व्रते वयं न रिष्येम कदा चन । स्तोतारस्त इह स्मसि
परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् । पुनर्नो नष्टमाजतु सं नष्टेन गमेमहि
यस्ते स्तनः शशयुर्यो मयोभूर्यः सुम्नयुः सुहवो यः सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे कः
यस्ते पृथु स्तनयित्नुर्य ऋष्वो दैवः केतुर्विश्वमाभूषतीदम् । मा नो वधीर्विद्युता देव सस्यं मोत वधी रश्मिभिः सूर्यस्य
सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने । येना संगछा उप मा स शिक्षाच्चारु वदानि पितरः संगतेषु
विद्म ते सभे नाम नरिष्टा नाम वा असि । ये ते के च सभासदस्ते मे सन्तु सवाचसः
एषामहं समासीनानां वर्चो विज्ञानमा ददे । अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु
यद्वो मनः परागतं यद्बद्धमिह वेह वा । तद्व आ वर्तयामसि मयि वो रमतां मनः
7.14(7.13) यथा सूर्यो नक्षत्राणामुद्यंस्तेजांस्याददे । एवा स्त्रीणां च पुंसां च द्विषतां वर्च आ ददे
यावन्तो मा सपत्नानामायन्तं प्रतिपश्यथ । उद्यन्त्सूर्य इव सुप्तानां द्विषतां वर्च आ ददे
7.1५(7.1४) अभि त्यं देवं सवितारमोण्योः कविक्रतुम् । अर्चामि सत्यसवं रत्नधामभि प्रियं मतिम्
उर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि । हिरण्यपाणिरमिमीत सुक्रतुः कृपात्स्वः
सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै । अथास्मभ्यं सवितर्वार्याणि दिवोदिव आ सुवा भूरि पश्वः
दमूना देवः सविता वरेण्यो दधद्रत्नं पितृभ्य आयूंषि । पिबात्सोमं ममददेनमिष्टे परिज्मा चित्क्रमते अस्य धर्मणि
7.16(7.15) तां सवितः सत्यसवां सुचित्रामाहं वृणे सुमतिं विश्ववाराम् । यामस्य कण्वो अदुहत्प्रपीनां सहस्रधारां महिषो भगाय
7.17(7.16) बृहस्पते सवितर्वर्धयैनं ज्योतयैनं महते सौभगाय । संशितं चित्संतरं सं शिशाधि विश्व एनमनु मदन्तु देवाः
7.18(7.17) धाता दधातु नो रयिमीशानो जगतस्पतिः । स नः पूर्णेन यच्छतु
धाता दधातु दाशुषे प्राचीं जीवातुमक्षिताम् । वयं देवस्य धीमहि सुमतिं विश्वराधसः
धाता विश्वा वार्या दधातु प्रजाकामाय दाशुषे दुरोणे । तस्मै देवा अमृतं सं व्ययन्तु विश्वे देवा अदितिः सजोषाः
धाता रातिः सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः । त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधातु
7.19(7.18) प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो धातरीशानो वि ष्या दृतिम्