अभीशुना मेया आसन् व्यामेनानुमेयाः । केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि
दृंह मूलमाग्रं यच्छ वि मध्यं यामयौषधे । केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि
त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्योषधे । इमं मे अद्य पुरुषं क्लीबमोपशिनं कृधि
क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि । अथास्येन्द्रो ग्रावभ्यामुभे भिनत्त्वाण्ड्यौ
क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरम् । कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि
ये ते नाड्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम् । ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः
यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना । एवा भिनद्मि ते शेपोऽमुष्या अधि मुष्कयोः
न्यस्तिका रुरोहिथ सुभगंकरणी मम । शतं तव प्रतानास्त्रयस्त्रिंशन् नितानाः ॥ तया सहस्रपर्ण्या हृदयं शोषयामि ते
शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम् । अथो नि शुष्य मां कामेनाथो शुष्कास्या चर
संवननी समुष्पला बभ्रु कल्याणि सं नुद । अमूं च मां च सं नुद समानं हृदयं कृधि
यथोदकमपपुषोऽपशुष्यत्यास्यम् । एवा नि शुष्य मां कामेनाथो शुष्कास्या चर
यथा नकुलो विछिद्य संदधात्यहिं पुनः । एवा कामस्य विछिन्नं सं धेहि वीर्यावति
यौ व्याघ्राववरूढौ जिघत्सतः पितरं मातरं च । तौ दन्तं ब्रह्मणस्पते शिवौ कृणु जातवेदः
व्रीहिमत्तं यवमत्तमथो माषमथो तिलम् । एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च
उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ । अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च
वायुरेनाः समाकरत्त्वष्टा पोषाय ध्रियताम् । इन्द्र आभ्यो अधि ब्रवद्रुद्रो भूम्ने चिकित्सतु
लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि । अकर्तामश्विना लक्ष्म तदस्तु प्रजया बहु
यथा चक्रुर्देवासुरा यथा मनुष्या उत । एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना
उच्छ्रयस्व बहुर्भव स्वेन महसा यव । मृणीहि विश्वा पात्राणि मा त्वा दिव्याशनिर्वधीत्
आशृण्वन्तं यवं देवं यत्र त्वाच्छावदामसि । तदुच्छ्रयस्व द्यौरिव समुद्र इवैध्यक्षितः
अक्षितास्त उपसदोऽक्षिताः सन्तु राशयः । पृणन्तो अक्षिताः सन्त्वत्तारः सन्त्वक्षिताः
धीती वा ये अनयन् वाचो अग्रं मनसा वा येऽवदन्न् ऋतानि । तृतीयेन ब्रह्मणा वावृधानास्तुरीयेणामन्वत नाम धेनोः
स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत्स भुवत्पुनर्मघः । स द्यामौर्णोदन्तरिक्षं स्वः स इदं विश्वमभवत्स आभरत्
अथर्वाणं पितरं देवबन्धुं मातुर्गर्भं पितुरसुं युवानम् । य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः
अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः । स प्रत्युदैद्धरुणं मध्वो अग्रं स्वया तन्वा तन्वमैरयत
एकया च दशभिश्च सुहुते द्वाभ्यामिष्टये विंशत्या च । तिसृभिश्च वहसे त्रिंशता च वियुग्भिर्वाय इह ता वि मुञ्च
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः
यज्ञो बभूव स आ बभूव स प्र जज्ञे स उ वावृधे पुनः । स देवानामधिपतिर्बभूव सो अस्मासु द्रविणमा दधातु
यद्देवा देवान् हविषाऽयजन्तामर्त्यान् मनसा मर्त्येन । मदेम तत्र परमे व्योमन् पश्येम तदुदितौ सूर्यस्य
यत्पुरुषेण हविषा यज्ञं देवा अतन्वत । अस्ति नु तस्मादोजीयो यद्विहव्येनेजिरे