भगेन मा शांशपेन साकमिन्द्रेण मेदिना । कृणोमि भगिनं माप द्रान्त्वरातयः
येन वृक्षामभ्यभवो भगेन वर्चसा सह । तेन मा भगिनं कृण्वप द्रान्त्वरातयः
यो अन्धो यः पुनःसरो भगो वृक्षेष्वाहितः । तेन मा भगिनं कृण्वप द्रान्त्वरातयः
रथजितां राथजितेयीनामप्सरसामयं स्मरः । देवाः प्र हिणुत स्मरमसौ मामनु शोचतु
असौ मे स्मरतादिति प्रियो मे स्मरतादिति । देवाः प्र हिणुत स्मरमसौ मामनु शोचतु
यथा मम स्मरादसौ नामुष्याहं कदा चन । देवाः प्र हिणुत स्मरमसौ मामनु शोचतु
उन् मादयत मरुत उदन्तरिक्ष मादय । अग्न उन् मादया त्वमसौ मामनु शोचतु
नि शीर्षतो नि पत्तत आध्यो नि तिरामि ते । देवाः प्र हिणुत स्मरमसौ मामनु शोचतु
अनुमतेऽन्विदं मन्यस्वाकूते समिदं नमः । देवाः प्र हिणुत स्मरमसौ मामनु शोचतु
यद्धावसि त्रियोजनं पञ्चयोजनमाश्विनम् । ततस्त्वं पुनरायसि पुत्राणां नो असः पिता
यं देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या । तं ते तपामि वरुणस्य धर्मणा
यं विश्वे देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या । तं ते तपामि वरुणस्य धर्मणा
यमिन्द्राणी स्मरमसिञ्चदप्स्वन्तः शोशुचानं सहाध्या । तं ते तपामि वरुणस्य धर्मणा
यमिन्द्राग्नी स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या । तं ते तपामि वरुणस्य धर्मणा
यं मित्रावरुणौ स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या । तं ते तपामि वरुणस्य धर्मणा
य इमां देवो मेखलामाबबन्ध यः संननाह य उ नो युयोज । यस्य देवस्य प्रशिषा चरामः स पारमिच्छात्स उ नो वि मुञ्चात्
आहुतास्यभिहुत ऋषीणामस्यायुधम् । पूर्वा व्रतस्य प्राश्नती वीरघ्नी भव मेखले
मृत्योरहं ब्रह्मचारी यदस्मि निर्याचन् भूतात्पुरुषं यमाय । तमहं ब्रह्मणा तपसा श्रमेणानयैनं मेखलया सिनामि
श्रद्धाया दुहिता तपसोऽधि जाता स्वसा ऋषीणां भूतकृतां बभूव । सा नो मेखले मतिमा धेहि मेधामथो नो धेहि तप इन्द्रियं च
यां त्वा पूर्वे भूतकृत ऋषयः परिबेधिरे । सा त्वं परि ष्वजस्व मां दीर्घायुत्वाय मेखले
अयं वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमप हन्तु जीवितम् । शृणातु ग्रीवाः प्र शृणातूष्णिहा वृत्रस्येव शचीपतिः
अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्। वज्रेणावहतः शयाम्
यो जिनाति तमन्विच्छ यो जिनाति तमिज्जहि । जिनतो वज्र त्वं सीमन्तमन्वञ्चमनु पातय
यदश्नामि बलं कुर्व इत्थं वज्रमा ददे । स्कन्धान् अमुष्य शातयन् वृत्रस्येव शचीपतिः
यत्पिबामि सं पिबामि समुद्र इव संपिबः । प्राणान् अमुष्य संपाय सं पिबामो अमुं वयम्
यद्गिरामि सं गिरामि समुद्र इव संगिरः । प्राणान् अमुष्य संगीर्य सं गिरामो अमुं वयम्
देवी देव्यामधि जाता पृथिव्यामस्योषधे । तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि
दृंह प्रत्नान् जनयाजातान् जातान् उ वर्षीयसस्कृधि
यस्ते केशोऽवपद्यते समूलो यश्च वृश्चते । इदं तं विश्वभेषज्याभि षिञ्चामि वीरुधा
यां जमदग्निरखनद्दुहित्रे केशवर्धनीम् । तां वीतहव्य आभरदसितस्य गृहेभ्यः