जानीत स्मैनं परमे व्योमन् देवाः सधस्था विद लोकमत्र । अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविरस्मै
देवाः पितरः पितरो देवाः । यो अस्मि सो अस्मि
स पचामि स ददामि । स यजे स दत्तान् मा यूषम्
नाके राजन् प्रति तिष्ठ तत्रैतत्प्रति तिष्ठतु । विद्धि पूर्तस्य नो राजन्त्स देव सुमना भव
दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसेन । समिन्द्रियेन पयसाहमग्ने छन्दोभिर्यज्ञैः सुकृतां कृतेन
यदि वृक्षादभ्यपप्तत्फलं तद्यद्यन्तरिक्षात्स उ वायुरेव । यत्रास्पृक्षत्तन्वो यच्च वासस आपो नुदन्तु निर्ऋतिं पराचैः
अभ्यञ्जनं सुरभि सा समृद्धिर्हिरण्यं वर्चस्तदु पूत्रिममेव । सर्वा पवित्रा वितताध्यस्मत्तन् मा तारीन् निर्ऋतिर्मो अरातिः
वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः । गोभिः संनद्धो असि वीडयस्वास्थाता ते जयतु जेत्वानि
दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः । अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज
इन्द्रस्यौजो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः । स इमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय
उप श्वासय पृथिवीमुत द्यं पुरुत्रा ते वन्वतां विष्ठितं जगत्। स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून्
आ क्रन्दय बलमोजो न आ धा अभि ष्टन दुरिता बाधमानः । अप सेध दुन्दुभे दुछुनामित इन्द्रस्य मुष्टिरसि वीडयस्व
प्रामूं जयाभीमे जयन्तु केतुमद्दुन्दुभिर्वावदीतु । समश्वपर्णाः पतन्तु नो नरोऽस्माकमिन्द्र रथिनो जयन्तु
विद्रधस्य बलासस्य लोहितस्य वनस्पते । विसल्पकस्यौषधे मोच्छिषः पिशितं चन
यौ ते बलास तिष्ठतः कक्षे मुष्कावपश्रितौ । वेदाहं तस्य भेषजं चीपुद्रुरभिचक्षणम्
यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर्विसल्पकः । वि वृहामो विसल्पकं विद्रधं हृदयामयम् । परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि
शकधूमं नक्षत्राणि यद्राजानमकुर्वत । भद्राहमस्मै प्रायच्छन् इदं राष्ट्रमसादिति
भद्राहं नो मध्यंदिने भद्राहं सायमस्तु नः । भद्राहं नो अह्नां प्राता रात्री भद्राहमस्तु नः
अहोरात्राभ्यां नक्षत्रेभ्यः सूर्याचन्द्रमसाभ्याम् । भद्राहमस्मभ्यं राजन् छकधूम त्वं कृधि
यो नो भद्राहमकरः सायं नक्तमथो दिवा । तस्मै ते नक्षत्रराज शकधूम सदा नमः
भगेन मा शांशपेन साकमिन्द्रेण मेदिना । कृणोमि भगिनं माप द्रान्त्वरातयः
येन वृक्षामभ्यभवो भगेन वर्चसा सह । तेन मा भगिनं कृण्वप द्रान्त्वरातयः
यो अन्धो यः पुनःसरो भगो वृक्षेष्वाहितः । तेन मा भगिनं कृण्वप द्रान्त्वरातयः
रथजितां राथजितेयीनामप्सरसामयं स्मरः । देवाः प्र हिणुत स्मरमसौ मामनु शोचतु
असौ मे स्मरतादिति प्रियो मे स्मरतादिति । देवाः प्र हिणुत स्मरमसौ मामनु शोचतु
यथा मम स्मरादसौ नामुष्याहं कदा चन । देवाः प्र हिणुत स्मरमसौ मामनु शोचतु
उन् मादयत मरुत उदन्तरिक्ष मादय । अग्न उन् मादया त्वमसौ मामनु शोचतु
नि शीर्षतो नि पत्तत आध्यो नि तिरामि ते । देवाः प्र हिणुत स्मरमसौ मामनु शोचतु
अनुमतेऽन्विदं मन्यस्वाकूते समिदं नमः । देवाः प्र हिणुत स्मरमसौ मामनु शोचतु
यद्धावसि त्रियोजनं पञ्चयोजनमाश्विनम् । ततस्त्वं पुनरायसि पुत्राणां नो असः पिता